137 मध्यं तत्रापि [उन्नेयम्] एव । अत्र निश्चयो जगतः । नैवमन्यथानुपपत्तिमृते लभ्यतेः । तथापीयमतिगतिरीदृशी युक्ततया नीता कविनेति निश्चयातिशयोक्तिरीदृशी प्रीतिसर्वस्वं रसिकानामिति ॥

अहो विशालं भूपाल ! भुवनत्रितयोदरम् ।
माति मातुमशक्योऽपि यशोराशिर्यदत्र ते ॥ २१७ ॥

भुवनानां स्वर्गादीनां त्रितयं त्रयोऽवयवा अस्येति तस्योदरं मध्यं विशालम् अतिविस्तीर्णम् अहो विस्मयनीयम् ! कथम् ? यत् यस्मात् भूपाल ! तव यशसां राशिः कीर्तिसन्दोहो मातुं परिच्छेतुम् इयत्तया अशक्योऽपि अत्र भुवनत्रितयोदरे माति पर्याप्तः तिष्ठति नातिरिच्यते । तस्मात् अतिप्रकाण्डमिदमिदानीं प्रतीयते सयुक्तिकमेवम् अस्माभिः । लोकस्तु प्रसिद्ध