154
आविर्भवति नारीणां वयः पर्यस्तशैशवम् ।
सहैव विविधैः पुंसामङ्गजोन्मादविभ्रमैः ॥ २५४ ॥

नारीणां वयः पर्यस्तं क्षिप्तं तदुपमादिनोदयात् शैशवं बाल्यमनेनेति पर्यस्तशैशवं यौवनमिति यावत् । अङ्गजः काम उन्मादो विकारहेतुत्वात् । तस्य विभ्रमाः तदनुरूपा दशाविशेषास्तैः कार्यभूतैर्विविधैर्नानाप्रकारैः चक्षुःप्रीतिमनःसङ्गसंकल्पोत्पत्तिनिद्राभङ्गादिभिः89 पुंसां सम्बन्धिभिः सह युगपदेवापूर्वाचारः समाविर्भवति उदेतीति चित्रमेतत् । प्रतीतो हि हेतुः कार्यात् पूर्वभावी तदुत्पादयति । अयं तु हेतुः सहैव कार्येण जायसे इति कार्यसहजश्चित्रो हेतुरेवंविधो बोद्धव्यः ॥

पश्चात् पर्यस्य किरणानुदीर्णं चन्द्रमण्डलम् ।
प्रागेव हरिणाक्षीणामुदीर्णो रागसागरः ॥ २५५ ॥

हरिणाक्षीणां रागः पुरुषाभिलाषः । सागरो वैपुल्पादिना । प्रागेव यावन्नेन्दुरुदेति उदीर्णो वृद्धिमगमत् । पश्चाद्रागसागरोदयानन्तरं किरणान् पर्यस्य दिक्षु विक्षिप्य उदीर्णमुदितं चन्द्रस्य मण्डलमित्यपूर्वोऽयं हेतुः । यः कार्यादूर्ध्वमुदेति इति कार्यान्तरजश्चित्रहेतुरेवंरूप इति ॥

राज्ञां हस्तारविन्दानि कुड्मलीकुरुते कुतः ।
देव ! त्वच्चरणद्वन्द्वरागबालातपः स्पृशन् ॥ २५६ ॥

देव ! तव चरणयोर्द्वन्द्वस्य युगलस्य रागो बालश्चासौ आतपश्चेति बालातपः तरुणतरणिकिरणसुन्दरः, लोहितत्वादिति । राज्ञां हस्तारविन्दानि कान्त्यादिना स्पृशन् अभिसारित्वेनामृशन् सन् कुतः कस्मात् कुड्मलीकुरुते मुकुलयति । अञ्चलिप्रणामत्वेनायुक्तमेतत् । बालातपो हि पद्मोन्मीलनहेतुः । अयं त्वपूर्वो

  1. दृङ्मनःसड्गसंकल्पा जागरः कृशतारतिः ।
    ह्नीत्यागोन्मादमूर्च्छान्ता इत्यनङ्गदशा दश ॥