पश्चात् पर्यस्य किरणानुदीर्णं चन्द्रमण्डलम् ।
प्रागेव हरिणाक्षीणामुदीर्णो रागसागरः ॥ २५५ ॥

हरिणाक्षीणां रागः पुरुषाभिलाषः । सागरो वैपुल्पादिना । प्रागेव यावन्नेन्दुरुदेति उदीर्णो वृद्धिमगमत् । पश्चाद्रागसागरोदयानन्तरं किरणान् पर्यस्य दिक्षु विक्षिप्य उदीर्णमुदितं चन्द्रस्य मण्डलमित्यपूर्वोऽयं हेतुः । यः कार्यादूर्ध्वमुदेति इति कार्यान्तरजश्चित्रहेतुरेवंरूप इति ॥