राज्ञां हस्तारविन्दानि कुड्मलीकुरुते कुतः ।
देव ! त्वच्चरणद्वन्द्वरागबालातपः स्पृशन् ॥ २५६ ॥

देव ! तव चरणयोर्द्वन्द्वस्य युगलस्य रागो बालश्चासौ आतपश्चेति बालातपः तरुणतरणिकिरणसुन्दरः, लोहितत्वादिति । राज्ञां हस्तारविन्दानि कान्त्यादिना स्पृशन् अभिसारित्वेनामृशन् सन् कुतः कस्मात् कुड्मलीकुरुते मुकुलयति । अञ्चलिप्रणामत्वेनायुक्तमेतत् । बालातपो हि पद्मोन्मीलनहेतुः । अयं त्वपूर्वो 74b बालातपो यः पद्मानि निमीलयतीति । अनुचितकार्यकरणात् अयुक्तकारी चित्रहेतुरेवंविध इति ॥