नन्वत्र सर्वथा गुण एव प्रतीयते नतु कश्चिद् दोषो यतो लेशतो निन्दा स्यादित्यत आह—

वीर्योत्कर्षस्तुतिर्निन्दैवास्मिन् भावनिवृत्तये ।
कन्यायाः कल्पते भोगान्निर्विविक्षोर्निरन्तरान् ॥ २६८ ॥

वीर्यस्य विक्रमस्योत्कर्षोऽधिमात्राता तस्य स्तुतिः वर्णनं निन्दैव दोषोक्तिरेव जायते । कथम् ? यतः कन्याया निरन्तरानविच्छेदवर्तिनो भोगान् 76a सुरतसुखानि विविक्षोरनुबुभूषोः सम्बन्धिनो भावस्य स्वीकाराभिप्रायस्यास्मिन् यथोपवर्णिते पुंसि तन्मनोरथप्रतिकूलवर्तिनि विषये वैमुख्याय कल्पते । ततो निन्दैवेयं जाता स्तुतिः, अन्यथा भावनिवृत्ययोगात् । नहि गुणवत्तया प्रतीतः परित्यज्यते किं तु दोषवानेव । तथा असौ अलीकरणरागव्यसनी सुरतसमरमहोत्सवपराङ्मुखः प्रतीतो यतस्तं विभावयतीति निन्दैवेयं लेशतः कृतेति ॥

[मुग्धो] नराधिपः सोऽयं निर्विकारः सुमेरुवत् ।
आश्रितानामपि क्लेशैर्व्यथते यो न जातुचित् ॥

इत्यपरमुदाहरणम् ॥

चपलो निर्दयश्चासौ जनः किं तेन मे सखि ।
आगःप्रमार्जनायैव चाटवो येन शिक्षिताः ॥ २६९ ॥

चपलो दुर्विनीतः यत्किञ्चनकारी निर्दयः क्ररश्च । किं तेनैवं दुःखदायिना जनेन निर्गुणेन ? पुनस्तादृश एवासौ येनागसामपराधानां प्रतिक्षणभाविनामात्मीयानां प्रमार्जनाय परिशोधनार्थमेव केवलम्, नानुग्रहाय कस्मैचित्तादृशाय चाटवोऽनेकविधा लोलनप्रकाराः शिक्षिताः स्वभ्यस्ताः । किं तेन चाटुचुञ्चुटनेति निगमनीयम् ॥