नादिनोऽमदनाधीः स्वा न मे काचन कामिता ।
तामिका न च कामेन स्वाधीना दमनोदिना ॥ ७५ ॥

नादो नाम तत्त्वविशेषः शैवसमयप्रसिद्धः स विद्यतेऽस्येति नादिनो मे मम स्वा स्वकीया धीः । न विद्यते मदनः कामोऽस्यामिति अमदना ततश्च स्वाधीना सदृशवर्तिनी भवतु । एवं किमतः ? ततश्च मे मम न काचन न काचित् कामिता विषयाभिलाषः । कामेन दमं नुदतीति तेन दमनोदिना प्रशमप्रत्यनीकेन हेतुना ते तदभावादेव तामिका न भवितुमर्हति । कामनिमित्तः सन्तापो नास्तीत्यर्थः । इदमर्धप्रतिलोमयमकम् । अत्रार्धान्तरमारभ्य प्रातिलोम्येन पाठे श्लोकनिष्पत्तिरिति ॥