203 सर्वत आदौ मध्येऽन्ते चेति सप्तमो विकल्पः । सर्वत इत्यस्यान्ते श्रुतस्य तसः प्रत्येकं सम्बन्धात् । सप्तम्यर्थश्चायम् । तथा च प्रथमं विवृतमादौ मध्येऽन्ते वेति । अन्यत्राप्येवं योज्यम् । यदा च सर्वतो यमकं तदा पादाभ्यासादयो विकल्पा जायन्ते ॥

एते सप्त विकल्पा मौलाः परस्परसङ्करभाजोऽनेकधा प्रसरन्तीति दर्शयन्नाह—

अत्यन्तबहवस्तेषां भेदाः सम्भेदयोनयः ।
सुकरा दुष्कराश्चैव दृश्यन्ते तत्र केचन ॥ ३ ॥

तेषां सप्तानां