240 कश्चिदादर्शितः क्रम इत्यपि पाठः । तत्र दुष्करमार्ग विषयेऽपि क्रमः प्रकारः कश्चित् कोऽपि संक्षिप्तः आदर्शित इति योज्यम् ।

॥ इति चित्रचक्रम् ॥

प्रहेलिका अनुबध्नन्नाह—

प्रहेलिकाप्रकाराणां पुनरुद्दिश्यते गतिः ॥ ९६ ॥

पुनः अथ प्रहेलिकानां तद्रूपाणां वा प्रकाराणां विकल्पानां गतिः स्वरूपं लक्षणं लक्ष्यं च, उद्दिश्यते प्रतिपाद्यते ॥

क्व पुनस्तदुपयोग इति चेदाह—

क्रीडागोष्ठीविनोदेषु तज्ज्ञैराकीर्णमन्त्रणे ।
परव्यामोहने चापि सोपयोगाः प्रहेलिकाः ॥ ९७ ॥

गोष्ठीनामनेकविधत्वात् क्रीडारूपाः प्रीतिस्वभावा रसवत्यो या गोष्ठ्यः समवायाः काव्यालापरूपा विदग्धानां ता एव सुखेन कालप्रेरणारूपत्वाद् विनोदाः तेषु क्रीडागोष्ठीविनोदेषु । तज्ज्ञैः प्रहेलिकावेदिभिः सह आकीर्णे जनसंबाधे स्थाने क्वचिन्मन्त्रणे गुप्तभाषणे तद्विदामेव तत्र गूढार्थानां प्रहेलिकानां रहस्यभूतार्थप्रतिपत्तिः । इतरेषां तत्र सन्निहितानामपि किमिदमुच्यत इति तदनवगमात् आकीर्णेऽपि मन्त्रणं प्रहेलिकाभिः साध्यते । [सामर्थ्यं चेद्] ज्ञायतां किमस्माभिरुच्यत इति व्यामोहने तत्त्वानिश्चयादाकुलीकरणे, नर्मरूपे वापि विषये । चैवेत्यपि पाठः । सहोपयोगेन प्रयोजनेन वर्तत इति सोपयोगा उपकारिण्यः । ततस्ता अप्यलङ्कारवत्