अनाहिताग्नयोऽप्येते जातपुत्रा वितन्वते ।
विप्रा वैश्वानरीमिष्टिमक्लिष्टाचारभूषणाः ॥ १७७ ॥

आहितो वैदिकेन विधिना परिगृहीतोऽग्निः परिणयकालभावी यैरिति आहिताग्नयः । न तथा अनाहिताग्नयो ये [ते] अपि । अपिशब्दो योगं सूचयति । एते विप्राः । जाताः पुत्रा एषामिति जातपुत्राः । विश्वानरो देवता अस्यामिति वैश्वानरीमिष्टिमिज्याम् । आग्नेय[यज्ञं] वितन्वते कुर्वन्ति । अक्लिष्टः परिशुद्धः आचारश्चारित्रं शास्त्रविहितं भूषणमलङ्कारो येषामित्यक्लिष्टाचारभूषणाः । इदमागमविरुद्धम् । ये हि [साग्निका] उत्पन्नतनयाश्च [त एव] वैश्वानरं यागमनुतिष्ठन्तीति श्रुतेः । कथमन्यथा अक्लिष्टाचारा इति ॥