तस्य राज्ञः प्रभावेण तदुद्यानानि जज्ञिरे ।
आर्द्रांशुकप्रवालानामास्पदं सुरशाखिनाम् ॥ १८० ॥

तस्याभिमतस्य राज्ञः कस्यचित् प्रभावेण पुण्यानुभावात् अतिमानुषात् तस्यो122a द्यानानि । आर्द्राणि स्निग्धानि अंशुकानि वस्त्राण्येव प्रवालानि किसलयानि येषामित्यार्द्रांशुकप्रवालानां सुरशाखिंनां कल्पवृक्षाणामाम्पदं सद्म । आस्पदार्थस्य एकार्थ्येन विवक्षितत्वात् उद्यानादिबहुत्वसमानाधिकरण्येऽपि एकवचनम् । जज्ञिरे जातानि । पुण्यप्रभावस्याचिन्त्यत्वात् मनुष्यलोकेऽपि सुरशाखिनः सम्भवः । एवमुक्तमाचार्यशूरेण—

पुण्यानुभावादथ तस्य तस्मि-न्नपङ्कजं पङ्कजमुद्बभूव ।
अवज्ञयेवावजहास मारंयच्छुक्लया केशरदन्तपंक्त्या ॥
155 इति तत्र देशाविरोधः ॥

  1. जातकमालायाम् ४. १९