अस्यापवादं दर्शयन्नाह—

अस्ति काचिदवस्था सा साभिषङ्गस्य चेतसः ।
यस्यां भवेदभिमता विरुद्धार्थापि भारती ॥ १३३ ॥

यस्यामवस्थायां वक्तुः सम्बन्धिन्यां विषये । विरुद्धोऽर्थो यस्यामिति विरुद्धार्था पूर्वापराहताभिधेया अपि, न केवलमितरा । भारती वचनम् अभिमता अदुष्टा । तदा तथोचितत्वात् । चेतसः तादृशी क्वचित् समवस्था दशा अस्तिं विद्यते । कस्य ? सहाभिषङ्गेण [आसक्त्या] क्वचिद् विषये स्त्र्यादौ वर्तते इति साभिषङ्गस्य अतिरक्तचेतसः सम्बन्धिनी कुतश्चित् मनोवस्थाविशेषाद् व्यर्थमप्यनिन्द्यमित्यर्थः ॥