अत्राप्यपवादमाह—

ईदृशं संशयायैव यदि जातु प्रयुज्यते ।
स्यादलङ्कार एवासौ न दोषस्तत्र तद्यथा ॥ १४१ ॥

ईदृशमेवंविधं ससंशयं वचनं यन्निश्चयार्थ[निगूहनेन] संशयायैव काव्यार्थसन्दे[होत्पादना]र्थमेव, तथेष्टत्वात् । जातु कदाचित्, न सर्वथा । तादृशे प्रस्तावे यदि प्रयुज्यते तदा असौ संशयः अदोषो जातः अलङ्कारो गुण एव स्यात् काव्यस्य । न दोषः स्यात् । तत्र तादृशि संशये विषये तस्यैव तत्र विधेयत्वात् । यथेत्युदाहरति ॥