शब्दहीनमनालक्ष्यलक्ष्यलक्षणपद्धतिः ।
पदप्रयोगोऽशिष्टेष्टः शिष्टेष्टस्तु न दुष्यति ॥ १४८ ॥

पदस्य सुबन्तस्य तिङन्तस्य वा प्रयोगो व्यवहारः पदप्रयोगः, लक्ष्यते [यत्] तदिति लक्ष्यमुदाहरणम् । लक्षणं शब्दशासनम्, लक्ष्यते अनेन शब्दरूपमिति कृत्वा । तयोः ते एव वा पद्धतिः मार्गः, ततो व्यवहारप्रवृत्तेः । अनालक्ष्या अदृश्या, अभावात् । लक्ष्यलक्षणपद्धतिर्यस्मिन् स तादृश अशिष्टैरनाप्तैः स्वीकृतः । इत्यनूद्य शब्दहीनं तद्विज्ञेयमिति विधीयते । यः पुनरेवंभूतोऽपि पदप्रयोगः शिष्टैरिष्यते शास्त्रे काव्ये वा, क्वचित् प्रयुक्तत्वात् । स शिष्टैः शास्त्रकारैस्तत्प्रज्ञैर्वा इष्टस्तु आप्तप्रयुक्तः पुनः न दुष्यति, तेषां सर्वथेह प्रमाणत्वात् । अनन्तो हि शब्दराशिः । तत्र कश्चिच्छब्दः शब्दानुशासनाद् गृह्यते । कश्चिदाप्तप्रयोगात् तत्कल्पात् । शब्दानुशासनमपि आप्तोपदेश इति न कश्चिदनयोर्विशेषः अत एवोक्तम् — शिष्टेष्टस्तु न दुष्यतीति ॥