19b उन्मिश्रो मध्यमश्रुतिः । कः पुनरेषां प्रभव इत्याह—मृद्वित्यादि । मृदवो मृदुश्रुतयः ककारादयः यथासम्भवम् । स्फुटा अधिमात्रश्रुतयः घकारादयः । उन्मिश्रा मृदुस्फुटाः संसृष्टा ये वर्णास्तेषां विन्यासो रचना योनिः प्रभवो येषां ते तथा । ते च त्रयः मृदुमध्योऽधिमात्रभेदेन प्रत्येकं त्रिधा सम्भवन्ति । स[मे] तु तेषामेवा[वा]न्तरो भेदः स्यात् । मौलास्त्रय एव बन्धाः । तत्र पद्यं गद्यं द्विधा । यद्येकेन बन्धेन समाप्यते तदा49 समं काव्यम्, विजातीयबन्धकृतवैषम्याभावात् । अत एवोक्तं बन्धेष्वविषममिति । साम्यं पृथगुदाहृतम् ॥

अथ विजातीयबन्धत्वसङ्करस्तदा विषमं काव्यं जायते विजातीयबन्धकृतवैषम्ययोगात् । तदेवमुदाहरन्नाह—

कोकिलालापवाचालो मामेति मलयानिलः ।
उच्छलच्छीकराच्छाच्छनिर्भ्फराम्भःकणोक्षितः ॥ ४८ ॥

कोकिलानामालापैः कूजितैर्वाचालो मुखरो मृदुवसन्ते कोकिलालापस्य मलयानिलस्य च सम्भवादेवमुक्तम् । उच्छलन्तः शीकरा येषां विकीर्यमाणकणानामच्छ-

  1. पद्यैकेन बन्धिन समाध्यते तथा इत्याकरे ।