न ज्ञायते कीदृशोऽसौ इति विशेषेण दर्शयन्नाह—

यया कयापि श्रुत्या यत् समानमनुभूयते ।
तद्रूपादिपदासत्तिः सानुप्रासा रसावहा ॥ ५२ ॥

यत् पदं समानं सदृशं पदान्तरेणानुभूयते श्रूयते । किं वर्णावृत्या नेत्याह—यया कयापि श्रुत्येति । येन केनचित् [का]रणेन पदावयवभूतेन यथाकथञ्चित् स्थानमात्रासंयोगादिकृतसाम्येन लक्षितं सत् तद्रूपस्तथाविधः सदृशपदलक्षण आदिरुत्तरोत्तरविजातीयपदापेक्षया येषां पदानां तानि तद्रूपादीनि पदानि तद्वा रूपं शब्दरूपं समानं पदमादिरादिरुत्तरोत्तरापेक्षया पूर्वं येषामिति विग्रहः । तेषामासत्तिरासन्नता यथाकथञ्चित् समानश्रुतीनां पदानामासन्नता रसमावहति श्रुतिसुभगतामातनोतीति रसावहा भवति । यथाकथञ्चित् समानश्रुतीनि पदानि 21b अदूरवर्त्तीनि काव्ये रसवत्तां संपादयन्ति यतो मधुरं स्यात् । अयं च समानपदासत्तिर्नाम समानश्रुतिर्नाम वा 36 शब्दरसः दाक्षिणात्यैरत्यन्तमिष्यते । अनुप्रासोऽपि शब्दरसोऽस्ति, स किं दाक्षिणात्यैर्नेष्यते । सोऽपीष्यत इत्याह-सानुप्रासेति । अनुप्रासस्य लक्षणं वक्ष्यति । सह तेन वर्त्तते सानुप्रासा, रसावहा [इत्यने]नावधार्यते । समानश्रुतेरेव रसावहेति । अनुप्रासोऽपि च रसमावहति । ततश्च शब्दरसो द्विविधो दर्शितो भवति । समानपदासत्तिरनुप्रासश्च । अनयोश्च न सहभावनियमः । यथासम्भवं क्वचित् काव्ये समानपदासत्तिः । क्वचिदनुप्रासः । क्वचिदुभयाम् । द्वयेन तु रहितं विरसं काव्यं न स्वाद्यते क विभिरितीदृशं माधुर्यं द्विविधं प्रतिपत्तव्यम् ॥