अस्य समानश्रुतिलक्षणस्य माधुर्यस्य गौडवर्त्मनि विपर्ययं दर्शयन्नाह—

इतीदं नादृतं गौडैरनुप्रासस्तु तत्प्रियः ।
अनुप्रासादपि प्रायो वैदर्भैरिदमीप्सितम् ॥ ५४ ॥

इतीदम् एवंबिधं समानपदासत्तिलक्षणं माधुर्यं गौड़ैर्नादृतम्, न बहु मन्यते ।37 तेषामिदमविदितमिति यावत् । नीरसं तर्हि तेषां काव्यमिति चेदाह—अनुप्रासस्तु तत्प्रिय इति । तेषां गौडानां प्रियो बहुमान्यः । विदितानुप्रास[स्य] तु अनुप्रास एव शब्दरसः । दाक्षिणात्यानां तु समानपदासत्तिलक्षणः शब्दरसः प्रेयानित्याह—अनुप्रासादपीत्यादि । अनुप्रासादप्यधिकमिदं समानपदासत्तिलक्षणं माधुर्यमीप्सितमिष्टं वैदर्भैर्दाक्षिणात्यैः प्रायो बाहुल्येन तत्प्रयोगात् । ततश्च अनुप्रासोऽपि तैरिष्यत इत्युक्तं भवति । न तु तथासौ प्रियस्तेषां यथा समानपदासत्तिः । तादृशं हि माधुर्यं व्यापकं सर्वत्र सम्भवात् । अनुप्रासस्तु न तथा व्यापकः क्वचिद् दर्शनात् । अत एव प्राय इदमीप्सितमित्युक्तम् । शब्दरसस्तूभयमपि । द्वयेन तु हीनं नीरसं नास्वाद्यते कविभिरिति ॥