यथाकथञ्चित्समानपदासत्तौ एव लक्ष्यतः प्रकाश्यं अनुप्रासमुदाहरन्नाह—

चन्द्रे शरन्निशोत्तंसे कुन्दस्तबकविभ्रमे ।
इन्द्रनीलनिभं लक्ष्म सन्दधात्यलिनः श्रियम् ॥ ५६ ॥

समानपदासत्तौ तु रसावहत्वं प्रसङ्गेनोक्तम् । समानपदासत्तिरपि तु लक्षण23a तो लक्ष्यतश्च प्राधान्येन प्रागुक्ता । इन्द्रनीलनिभम् इन्द्रनीलमणिसदृशं नीलत्वात् । लक्ष्म चिह्नम् । अलिनो भ्रमरस्य श्रियं शोभां संदवाति बिभर्ति । कुत्र ? चन्द्रै शंशाङ्के शरदि वर्षात्यये शरदो वा निशाया रात्रेरुत्तंसे शिरश्शेखरे । उत्तंसो मूर्ध्नि शेखर इत्यभिधानात् । कथमुत्तंसश्चन्द्रो रूप्यत इत्याह—कुन्दस्तबकविभ्रमेति । कुन्दस्तबकस्यैव विभ्रमः शोभा शौक्ल्यात् । यतः कुसुमसंदोहसदृशश्चन्द्रस्ततः शरन्निशोत्तंसत्वेन रूष्यते [तदनुपाति] च लक्ष्म नीलमणिनोपनीयते । अत्र चन्द्र कुन्द इन्द्र सन्द इतिं पादेष्वनुप्रासः ॥