44 सुकुमारतामुदाहरन्नाह—

मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः ।
कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि ॥ ७० ॥

वर्हाण्यङ्गरुहाणिं मण्डलीकृत्य छत्राकारेण विंतत्य मधुरा मनोहरा गीतिःकेकालक्षणं गानं येषां तैः कण्ठैर्लक्षिता मधुरं गायन्त इत्यर्थः । कला26b पिनो मयूराः प्रनृत्यन्ति जीमूतमालिनि मेघधारिणि । मलमल्लधारणे । काले समये प्रावृषीति यावत् ॥