48 तदुदाहरन्नाह—

अर्थिनां कृपणा दृष्टिः स्त्वन्मुखे पतिता सकृत् ।
तदवस्था पुनर्देव नान्यस्य मुखमीक्षते ॥ ७७ ॥

अर्थिनां याचकानां दृष्टिश्चक्षुः कृपणा दीना निरानन्ददौर्गत्योपहतत्वात् याच्ञामरणावस्थाप्राप्तत्वाच्च त्वन्मुखे वदने सकृदेकवारं पतिता प्रवृत्ता सती तदवस्था सा 29a कृपणा अवस्था यस्या इति विग्रहः । पुनस्तथैव कृपणा अप्राप्तकामत्वादन्यस्य दातुर्मुखं नेक्षते न पश्यति देवेति कश्चिद्राजा स्तूयते । त्वामेकवारमर्थितया प्राप्य पुनरन्यं न याचते त्वत्त एव पूर्णमनोरथत्वात् । आकारमात्रेण वार्थितां ज्ञात्वा कृतार्थयसि यावद् याच्ञाक्षराणि कृपणानि नोद्गीरन्तीत्यर्थः ॥