ओजः किंलक्षणमितिं निर्दिशन्नाह—

ओजः समासभूयस्त्वमेतद्गद्यस्य जीवितम् ।
पद्येऽप्यदाक्षिणात्यानामिदमेकं परायणम् ॥ ८० ॥

समासस्यैकार्थवृत्तेर्भूयस्त्वं बाहुल्यमित्यनूद्य ओजो विधीयते । तदेतदोजः समासबाहुल्यलक्षणं गद्यस्योक्तरूपस्य जीवितं हृदयं सारं न पद्यस्य तत्प्रधानत्वाद्नद्यस्येतिं । वैदर्भाणां दाक्षिणात्यानाम् । गौडानां तु इदमोज एकं केवलं परायणं शरणं पद्येऽपि विषये न केवलं गद्ये ततश्चात्रापि मतभेद इति ॥