तदुदाहरति—

गृहाणि नाम तान्येव तपोराशिर्भवादृशः ।
सम्भावयति यान्येवं पावनैः पादपांसुभिः ॥ ८६ ॥

केनचित् तपोधनेन कश्चिद् गृहमेधी स्वगृहागतेन वार्तापृष्टः सन् अभिधत्ते गृहाणि गेहानि नाम तान्येवोच्यन्तेऽर्थतो नामतश्च नान्यानि । अत एव नामेत्युक्तम् । संभावनायां वा नामशब्दः । कतमानि ? यानि गृहाणि एवमागमनोत्सवेन पादपांसुभिश्चरणरेणुभिः पावनैः पवित्रैः जाह्नवीजलैरिव संभावयति मानयति पुनाति भवादृशः त्वद्विधः तपोराशिः साक्षाद्धर्मसञ्चयः । तथाभिधं वार्ताभिधानं सर्वजगत्कान्तं लौकित्वात् तादृशस्यार्थस्य । उक्तं च— 52

अग्निचित् कपिला स[त्री] राजा भिक्षुमहादधिः ।
31b दृष्टा माता पुनन्त्येते त्वं पुनः स्मरणादपि ॥ इति ।