गुरुगर्भेत्यादि—

गुरुगभभरल्कान्ताः स्तनन्त्यो मेघपङ्क्तयः ।
अचलाधित्यकोत्सङ्गमिमाः समधिशेरते ॥ ९८ ॥

गुरुर्गृहीतसारत्वात् गर्भोऽन्तर्भागः स एव भरो भारः दुर्वहत्वात् तस्य वा भरोऽवसादः । तेन ल्कान्ता ग्लानाः स्तनन्त्यः ल्कान्त्यनुरूपं शब्दं कुर्वाणाः मेघपङ्क्तयः पयोदमाला इमा एता अचलस्य पर्वतस्य अधित्यकायाः उपरिभूमेरुत्सङ्गं समधिशेरतेऽध्यासते ॥