कियन्तोऽत्र धर्मा अध्यस्ता इति दर्शयन्नाह—

उत्सङ्गे शयनं सख्याः स्तननं गौरवं क्लमः ।
इतीमे गर्भिणीधर्मा बहवोऽन्यत्र दर्शिताः ॥ ९९ ॥

सख्याः कस्याश्चित् उत्सङ्गे शयनं स्तननमार्तरुतं गौरवं गर्भकृत[दुर्भरत्वा]दिलक्षणं तत्कृतश्च ल्कमः ग्लानिरित्येते गर्भिण्या अन्तर्वत्न्या धर्माः प्रसिद्धा बहवोऽनेके अन्यत्र मेघपङ्क्तिषु.........दर्शिता अध्यस्ता इत्ययमनेकधर्मसमाधिः ॥