36a न भेदलक्षणेन व्यक्तमुभयसम्भविनः प्रतिभेदा यथादर्शनं विभज्यन्ते इत्यलं विस्तरेण ॥

सेयं काव्यलक्षणप्रयोजनस्वभावा काव्यगुणदोषविवेकरूपा व्युत्पत्तिर्यामभिसन्धाय क्रियाविधिं निबबन्धुः सूरयः, तस्य किं प्रयोजनमितीदानीमवसरं प्राप्य प्रयोजनं वर्ण्यन्नाह—

नैसर्गिकी च प्रतिभा श्रुतं च बहु निर्मलम् ।
अमन्दश्चाभियोगोऽस्याः कारणं काव्यसम्पदः ॥ १०३ ॥

नैसर्गिकी स्वाभाविकी जन्मान्तराभ्यास[स]म्भविनी । सहजेति यावत् । प्रतिभा हेयोपादेयपरिच्छेदलक्षणा । सा च प्रकरणात् काव्यविषया । सहजा शक्तिरियम् । उत्पाद्यां दर्शयन्नाह—श्रुतं चेत्यादि । श्रुतं काव्याङ्गविद्याश्रवणं श्रुतमयं तच्च