10a कारो दृश्यते ऋजुनैव क्रमेण । प्रतिपक्षोत्कर्षः किं न कथ्यते वक्रोक्त्या किं न ख्याप्यते वक्रीक्तिप्रधानत्वात् काव्यस्येति चेत् । यत्किञ्चिदेतत् । 20अशोकवनिकाचोद्यमिदम् ।

यदुच्यते काव्यशरीराव्यापकत्वात्, अनभ्युदयभागित्वाच्च विपक्षस्य प्रागुन्यासवर्णने विफल इति । तदसत् । कथं प्रतिपक्षोत्कर्षख्यापनपरं विपक्षवर्णनं प्राक्क्रियमाणं विफलं ना[म] । एवं हि प्राक्प्रतिपक्षनायकवर्णनम्, तेन च विपक्षनायकनिराकरणमितीदमपि प्रतिपक्षोत्कर्षार्थं क्रियमाणं विफलं स्यात् । अथ प्रतिपक्षोत्कर्षकथनार्थत्वात् ननु21 चैतत् प्रतिप[क्ष]वर्णनमपि प्रतिपक्षोत्कर्षख्यापनार्थत्वात् न मुघेति न कश्चिद् विशेषोऽन्यत्राभिनिवेशात् । तस्मात् काव्यशरीराव्याप्त्यनभ्युदयभागिनोऽपि विपक्षस्य प्राक् ग्रह[ण]स्तवौ न मुधैव, प्रतिपक्षोत्कर्षख्यापनार्थत्वात्, प्रतिपक्षवर्णनादिवदिति द्वयमपि साधु दृश्यतामिति ॥

यत् पूर्वं काव्यशरीरं त्रिविधोद्दिष्टं पद्यं गद्यं च मिश्रं चेति22 तत्रैता[वता] पद्यं निर्दिष्टम् । गद्यमधिकृत्याह—

अपादः पदसंतानो गद्यमाख्यायिका कथा ।
इति तस्य प्रभेदौ द्वौ

न विद्यते पादः पादव्यवस्था यस्मिन्निति न पादो वा अपादः पादस्वभावो न भवती-

  1. अशोकवतितेति आदर्शे

  2. ननु वतत्प्रात्विप आदर्शे

  3. १.११