ननु दण्डिकृतो विधिरस्ति, लम्भादिर्वाश्वासो वा भवत्विति । तदप्रमाणमिति चेत् । भामहकृतो निषेधः प्रमाणमिति कोशपानमत्र करणीयं स्यात् । द्वयोरपि शास्त्रकारत्वात् प्रामाण्यम्, न वा कस्यापि । मतभेदस्तत्र भवत्विति चेत् ? अस्तु तत्किमस्थानाभिनिवेशः क्रियते । युक्तिपुरस्कृतं तु दण्डिमतं दृश्यत इति ॥

तत्कथाख्यायिकेत्येका जातिः संज्ञाद्वयाङ्किता ।
अत्रैवान्तर्भविष्यन्ति शेषाश्चाख्यानजातयः ॥ २८ ॥

यत एवं निरूप्यमाणो नानयोः कश्चिज्जातिभेदो लभ्यते अन्यत्र संज्ञाभेदात्, ततस्तावदेका जातिरियं गद्यजातिः । आख्यायिकेयं कथेयमिति अनेन संज्ञाद्वयेन द्वाभ्यां नामभ्याम12b ङ्किता लक्षिता व्यवहरणीया । न च नामभेदमात्रकेन जातिभेद एव सर्वथा स्यात् । ब्राह्मणक्षत्रियादिभेदेऽपि मनुष्यत्वात्तेषाम् । क्रियाभेदोऽत्र20 संज्ञाभेदनिमित्तमिति चेत्—किं वै सर्वा नैमित्तिकी संज्ञा, यादृच्छिक्यपि हि सा दृश्यते, मण्डपादिवत् । निमित्तं वा किंचिन्मृग्यतां यदि तेन विना दौःस्थ्यम् । नन्वपरेऽपि गद्यप्रभेदा दृश्यन्ते, किं ते नोक्ता इति चेदाह—अत्रैवेत्यादि । शेषां आख्यानपर्याया ये सम्भवन्ति आख्यानजातयः, आख्यानकप्रभेदाः ता अत्रैवानयोरेव कथाख्यायिकयोरन्तर्भविष्यन्ति गद्यजातित्वेनाभेदात् लक्षणतः । चकारः [अन्]उक्तसमुच्चये । तस्मात् पृथक् तासां लक्षणं नोक्तम् । तल्लक्षणेनैव कृतलक्षणत्वादित्यर्थ इति ॥