संस्कृतं वाङ्मयं कतमदिति सर्वं दर्शयन्नाह—

संस्कृतं सर्गबन्धादि प्राकृतं स्कन्धकादि यत् ।
ओसरादिरपभ्रंशो नाटकादि तु मिश्रकम् ॥ ३७ ॥

यत् सर्गबन्धादि तत्सर्वं संस्कृतं वाङ्मयं वेदितव्यम् । आदिशब्देन पृथक् संघातादिपरिग्रहः । यत् स्कन्धकादिवाङ्मयं तत्सर्वं प्राकृतं वेदितव्यम् । अत्रापि आदिशब्देन गाव्याद्युपादानं सेतुबन्धादिवद् द्रष्टव्यम् । 38ओसरादीनि काव्यानि यानि तानि सर्वा[ण्य]पभ्रंशो विज्ञायताम् । तानि वलयकरम्बकादीनि । आदिशब्देन रासकादिपरिग्रहः । नाटकादि तु यत्तत् मिश्रकं संस्कृतादिभिर्वेदितव्यम् । आदिशब्देन भाणकादिपरिग्रहः ॥

  1. हेसरादीति आदर्शे