कथादिकं कथमित्याह—

26
कथादिः सर्वभाषाभिः संस्कृतेन च पठ्यते ।
भूतभाषामयीं त्वाहुरद्भतार्थां बृहत्कथाम् ॥ ३८ ॥

कथा आदिर्यस्याख्यानकादेः स कथादिः प्रबन्धः । सर्वाभिर्भाषाभिः संस्कृतप्राकृतापभ्रंशपैशाचिका[दि]भिः । समुच्चयविकल्पाभ्यां यथासम्भवं 16a पठ्यते विरच्यते । संस्कृतेन चेति गतार्थमपि पृथगुक्तम् । प्राधान्यख्यापनार्थं न तु केवलार्थम्, प्राकृतादेरत्रातिपृथगभिधानप्रसङ्गात् । यथा संस्कृतप्राकृतापभ्रंशाख्यं भाषात्रयं शुद्धमपि प्रयुक्तं दृश्यते, न तथा पैशाचिकम् । भाषानुगतमेव तु दृश्यते चेदाह । भूतभाषामयीत्यादि । भूतभाषा पैशाचिकवाक् तद्विकारस्तन्मयीं शुद्धपैशाचिकाम् । तुशब्दोऽर्थान्तरविवक्षायाम् । बृहत्कथामाहुः कथयन्ति तद्विदः । केवलपैशाचिकी बृहत्कथा दृश्यते इत्यर्थः । किंविशिष्टामित्याह—अद्भुतार्थामिति । अद्भुतः प्रकृष्टो नानाविधः अपूर्वः अर्थोऽभिधेयं यस्यां तामाहुरिति प्रकृतं प्रधानकथनं चैतत् । अतएवाद्भुतार्थामिति । न त्वयमेव, अन्यस्या अपि भूतभाषामय्या रत्नप्रभादिकाया दर्शनात् ॥