16b णं तु सदपि न विवक्षितम् । तस्माल्लास्यादेरितरत् अन्यत् सर्गबन्धादि श्रव्यमेव श्रवण एव विनियुज्यते, अनभिनेयार्थत्वात्, न प्रेक्षणे इति । सैषा एवं रूपा द्वयी द्विविधा गतिर्व्यवस्था विनियोगकृता उदाहृता कथिता । तस्य त्रिविधस्य काव्यस्य न केवलं चतुर्विधेत्यपि शब्दः । यदुक्तम्—तैः शरीरं च काव्यानामलङ्कारश्च दर्शितः39 इति । तत्रेयता शरीरमलङ्काराधिष्ठानं निर्दिष्टम् ॥

इदानीमलङ्कारं तस्य निर्दिदिक्षुः प्रस्थानं रचयन्नाह—

अस्त्यनेको गिरां मार्गः सूक्ष्मभेदः परस्परम् ।
तत्र वैदर्भगौडीयौ वर्ण्येते प्रस्फुटान्तरौ ॥ ४० ॥

गिरां काव्यानां मार्गो रचनाप्रकारः, अनेको भिन्नो विजातीयः उदीच्यादिदिग्देशभेदेन अस्ति प्रवर्त्तते । किमेकान्तविसदृशोऽसौ, नेत्याह—सूक्ष्मभेदः परस्परमिति । परस्परमन्यो यम् सूक्ष्मः स्वल्पः भेदोऽन्तरं यस्य स तथा । विजातीयत्वेऽपि सदृशोऽस्ति मार्गः, गोगवयादिवदित्युत्सर्गः । तस्यापवादमाह—तत्रेत्यादि । तत्र तस्मिन्ननेकस्मिन् मार्गे वैदर्भगौडीयौ प्रस्फुटान्तरौ । विदर्भा दाक्षिणात्याः, एकदेशेन समुदायोपलक्षणत्वात् । तेषामयं वैदर्भः । गौडाः पौरस्त्याः तेषामयं गौडीयः । तौ मार्गौ प्रस्फुटौ । महदन्तरं भेदोऽनयोरिति प्रस्फुटान्तरौ । विजातीयत्वेऽपि शेषो मार्गो वैदर्भेण सदृशः, गवेव गवयः । गौडीयस्तु विसदृशः । गवेव करभः । व्यक्तिभेदस्त्वेकैकस्यामप्यनन्तः प्रतिकविस्थितः स इह न विवक्षितः । तद् वक्ष्यति—तद्भेदास्तु न शक्यन्ते वक्तुं प्रतिकविस्थिताः । इति ।40

यदि नामैवं ततः किमित्याह—ततश्च तावेव वर्ण्येते विभज्येते । प्रस्फुटान्तरयोः सुविभजत्वात् । शेषस्तु वैदर्भप्रायत्वात् पृथग् नोच्यते ।

  1. १.१०
  2. १.१०१