प्रसादः कीदृश इत्याह—

प्रसादवत् प्रसिद्धार्थमिन्दोरिन्दीवरद्युतिः ।
लक्ष्म लक्ष्मीं तनोतोति प्रतीतिसुभगं वचः ॥ ४५ ॥

31 प्रसिद्धः प्रकाशः सुगमोऽर्थोऽभिधेयं शब्दार्था यस्य तत्तथा । नतु भावार्थः, तस्य स्वभावगम्भीरत्वात् । तदुक्तम्—

कवेरभिप्रायमशब्दगोचरं स्फुरत्प्रकाशेषु पदेषु केवलम् ।
विशन्ति भावज्ञतया कृतश्रमाः [प्रकाशयन्त्याशयमर्थगौरवम् ॥] [?]
इति । ततः प्रसिद्धार्थमनूद्य प्रसादवत्प्रसादगुणयुक्तं प्रसन्नं वेदिव्यमिति विधीयते । कथयन्नेव उदाहरति- इन्दोश्चन्द्रस्य लक्ष्म चिह्नम् इन्दीवरद्युति नीलोत्पलशोभं लक्ष्मीं श्रियं तनोति विस्तारयति इन्दावेव । नीलोत्पलरुचिना चिह्नेन चन्द्रः शोभत इत्यर्थः । इत्येवंविधं वचः काव्यम् । प्रतीत्या भ्फटित्यर्थावगमेन सुतरां मनोहरं प्रसन्नमिति यावत् । भावार्थगम्भीरं तु यद् भवेत् तदपि प्रसन्नमेव । शब्दार्थप्रसत्तेः प्रतिविशिष्टमेव च तादृशम् । यदाह भारविः—
प्रवर्त्तते नाकृतपुण्यकर्मणां प्रसन्नगम्भीरपदा सरस्वतीति ।
47
पतन्तः पद्मगर्भेषु लोहिताः सूर्यरश्मयः ।
चरणेषु वरस्त्रीणां शोभ[न्ते विद्रु]मा इव ॥
इत्यपरमुदाहरणम् ॥

  1. किरातार्जुनीये १४. ३