उक्तार्थालंकाराणां संख्यामाह—
अर्थालंकृतयोऽप्येताश्चतुर्विंशतिसंख्यया ।
कथिता काव्यविज्ञानां चित्तप्रह्लादहेतवे ॥ ५५ ॥
अर्थालंकृतय इति । स्पष्टम् ॥
श्रीरामसिंहदेवाज्ञामादाय रचितो मया ।
दर्पणाख्यः सदा तेन तुष्यतां श्रीसरस्वती ॥
रत्नेश्वरो नाम कवीश्वरोऽसौ विराजते काव्यसुधाभिषेकैः ।
दुस्तर्कवक्राहतदुर्विदग्धां वसुंधरां पल्लवयन्नजस्रम् ॥
अद्य स्फुरतु वाग्देव्याः कण्ठाभरणकौतुकम् ।
मयि ब्रह्ममनोवृत्तौ कुर्वाणे रत्नदर्पणम् ॥
इति श्रीमन्महाराजश्रीरामसिंहेन महामहोपाध्यायमनीषिरत्नेश्वरेण विरचय्य प्रकाशिते दर्पणाख्ये सरस्वतीकण्ठाभरणविवरणेऽर्थालंकारस्तृतीयः
परिच्छेदः समाप्तः ॥
इति श्रीमहाराजाधिराजश्रीमद्भोजराजविरचिते सरस्वतीकण्ठा
भरणनाम्न्यलंकारशास्त्रेऽर्थालंकारस्तृतीयः परिच्छेदः ।