दंसणेत्यादि । “दंशनेन वलितं दृढकं विबन्धनं दीर्घं सुपरिणाहम् । भवति गृहे स्वाधीनं मुसलं धन्यानां महिलानाम् ॥” इहोत्तमस्त्रीणां गृहे ईदृशं मुसलं स्वायत्तं भवति । कीदृशम् । दंशने धान्यादिमर्दने वलितं लग्नम् । दृढकं दृढम् । स्वार्थे कन् । विगतबन्धनं दीर्घं सुपरिणाहमतिस्थूलं च । मेढ्रपक्षे दंशने भगमर्दने वलितं संनद्धं दृढं विगतबन्धनं दीर्घमतिस्थूलं च । अत्र मेढ्राभिप्रायेण मुसलोक्तेरन्यभावना ॥