क्षीरेत्यादि । वसन्तश्रीर्वसन्तशोभाऽदृश्यत जनैः । कीदृशी । क्षीरेण दुग्धेन क्षालितश्चन्द्रो यस्यां सा । नीलीद्रव्येन धौतं क्षालितमम्बरमाकाशं यस्यां सा । टङ्केन पाषाणदारणेनोल्लिखित उत्खण्डितः सूर्यो यस्यां सा । ‘टङ्कः पाषाणदारणः’ इत्यमरः । अत्रोपमोत्प्रेक्षयोर्मिथो मिलनादव्यक्तता । उभयव्यञ्जकस्य तुल्यकक्षतया प्रवृत्तेरिदं बोद्धव्यम् ॥