‘मूर्ध्ना जाम्बवतोऽभिवाद्य चरणावापृच्छ्य सेनापती- नाश्वास्याश्रुमुखान्मुहुः प्रियसखीन्प्रेष्यान्समादिश्य च ।
आरम्भं जगृहे महेन्द्रशिखरादम्भोनिधेर्लङ्घने रंहस्वी रघुनाथपादरजसामुच्चैः स्मरन्मारुतिः ॥ २० ॥’