यथा—
अत्र हन्यते हन्यत इति शब्दपुनरुक्तं चारुसर्वाङ्गी वरारोहेत्यर्थपुनरुक्तं तदुभयमप्यनुकम्पाद्यतिशयविवक्षायामदोष इति गुणत्वम् ॥
अनुकम्पेति । संभ्रमादौ यावद्बोधमित्यादिना पदद्विरुक्त्यादेरनुमतत्वान्न दोषत्वम् । अभिप्रायव्यञ्जननैयत्येन प्रकृतिपोषानुगुणतया गुणत्वम् । तथाहि—हन्यत इत्यादौ हन्यत इति यद्यप्यभिधेयतात्पर्यमिति शब्दपुनरुक्तजातीयं भवति, यद्यपि च वरारोहेत्यभिधाय चारुसर्वाङ्गीत्यभिन्नाभिधेयतात्पर्यं पर्यायरूपत्वादर्थपुनरुक्तजातीयम्, तथापि विरहवेदनादूनायामनुकम्पातिशयादसकृदुपादानमहिरहिर्बुध्यस्वेति लोकानुसारात् । अनुकम्पाभयाद्यस्य हि तादृशी पदद्विरुक्तिरभिप्रायविशेषार्थनिष्पादितया गुणकक्षाधिरोहणक्षमैवेत्याशयवान्व्याचष्टे—तदुभयमपीति ॥
अत्र ‘मा स्म जुगुप्सत’ इति वक्तव्ये ‘जुगुप्सत स्मैनमदुष्टभावं मैवम्’ इति पदव्यतिक्रमस्य ‘व्यस्तेऽपीच्छन्ति केचित्’ इति लुङ्लङोर्विशेषलक्षणत्वाद्गुणत्वम् ॥
पदानामिति । एकस्मिन् वाक्ये पदानामुचितसंनिवेशविपर्यासः क्रमभ्रंशः । स द्विधा भवति—पूर्वापरभावनियतानां तादृशक्रमप्रच्यावनेन वा । यथा बहुतृणमित्यन्योऽर्थः, तृणं बह्वित्यन्यः । पूर्वापरनियमशून्यानामिति तादृगुच्चारणविपर्यासेन वा । यथा कपालमनुलिम्पति, दुकूलं परिदधातीत्यत्र क्रमनियमोऽभिमतः । अनुलिम्पति कपालम्, परिदधाति वस्त्रमित्यपि कृतेन तस्यैवार्थस्य लाभात् । यदा तु कपालं परिदधाति दुकूलमनुलिम्पतीति क्रियते तदा भवति संनिधिविपर्यासस्तदेतव्द्याकीर्णसंकीर्णयोस्तुल्यं, तदिदमुक्तम्—क्रमेण व्युत्क्रमेण वा । ननु ‘स्मोतरे