138

स संकोच इति । यदि चन्द्रादिभ्यः कुमुदसंकोचादयो भवेयुस्तदा भवद्गुणेभ्यः खलानामुद्वेग उपमीयेत न तु तथा संभवति तेनायमलौकिकत्वादाश्चर्यमर्पयतीति वाक्यार्थपरिपोषात्तथोपन्यासो गुण एवेति ॥

औचित्यविरुद्धस्य यथा—

‘तेनाथ नाथ दुरुदाहरणातपेन सौम्यापि नाम परुषत्वमभिप्रपन्ना ।
जज्वाल तीक्ष्णविशदाः सहसोद्गिरन्ती वागर्चिषस्तपनकान्तशिलेव सीता ॥ २०० ॥’

अत्र स्त्रीत्वादौचित्यविरोधेऽपि तत्समयोचितत्वाद्गुणत्वम् ॥

वचनविरुद्धस्य यथा—

‘परदाराभिलाषो मे कथमार्यस्य युज्यते ।
पिबामि तरलं तस्याः कदा नु रदनच्छदम् ॥ २०१ ॥’

अत्र वचनविरोधेऽपि वक्तुस्तथाविधावस्थत्वाद्गुणत्वम् ॥

वचनविरुद्धस्येति । अष्टमी कामावस्थां105 ॥

धर्मविरोधस्य यथा—

‘पञ्चानां पाण्डुपुत्राणां पत्नी पाञ्चालकन्यका ।
सतीनामग्रणीस्त्वासीद्दैवो हि विधिरीदृशः ॥ २०२ ॥’

अत्र धर्मविरोधेऽपि दैवो विधिरित्यनेनाभिहितत्वाददोषः ॥

धर्मविरोधस्येति । दैवो हीति । सिद्धादेशाच्च सतीत्वं पाञ्चालकन्यकायाः । तिरस्कृतमित्यत एव वा पञ्चधा विवक्षित इत्यागमः ॥

अर्थशास्त्रविरुद्धस्य यथा—

‘नीतिरापदि यद्गम्यः परस्तन्मानिनो ह्रिये ।
विधुर्विधुंतुदस्येव पूर्णस्तस्योत्सवाय सः ॥ २०३ ॥’
  1. प्रक्षिप्तोऽयं पाठः