सनत्कुमार उवाच |

अथ दानवमुख्यानां लोकनाशाय निर्ययौ |
मत्तवारणसम्बाधं रथाश्वकलिलं बलम् || १ ||
तत्तदा दानवानीकं विससार दिशो दिशः |
प्रलये मारुतोद्धूतमुदन्वत इवोदकम् || २ ||
निजघ्नुर्ब्राह्मणान्केचित्केचिन्निष्पिपिषुर्विशः |
सुसुभुः क्षत्रियानन्ये शूद्रानन्ये बभक्षिरे || ३ ||
जग्रसुर्लिलिहुर्नेदुर्बभञ्जुश्च समन्ततः |
यज्ञेष्वन्नं हविर्नादान्यूपांश्चामरविद्विषः || ४ ||
स्वधीतवेदाध्ययनाभिनादितान्मुनिप्रवेकाचितगुल्मपादपान् |
प्रभूतचीराजिनदर्भसंचयान्निकामपर्यन्तहिमाम्बुनिर्झरान् || ५ ||
उपान्तनीवारगवेधुकाचितान्प्रसुप्तविश्वस्तमृगर्क्षवानरान् |
हविर्भुजो धूमवितानसंकुलान्विसृत्य चान्ये परिजघ्नुराश्रमान् || ६ ||
केचिन्मुनीनामसुरा जीर्णोरगसमत्विषः |
जटाः संगृह्य लुलुचुः क्षालितास्तीर्थवारिणा || ७ ||
पातयित्वासुराः केचिच्चरणैः पिपिषुः क्षितौ |
ऋषीनात्मविनाशाय हुताशाञ्ज्वलितानिव || ८ ||
शिरांसि मुनिपत्नीनां करैः केचित्तलत्रिभिः |
पूतानि वारिभिः पुण्यैः पस्पृशुर्दानवाधमाः || ९ ||
अथ ते जगृहुर्यात्रां ज्ञात्वाभ्युदयमात्मनः |
विक्षिप्तं लोकनाशाय बलमाहूय सर्वशः || १० ||
प्रशस्ते ऽहनि नक्षत्रे मुहूर्ते च जयान्विते |
संनाहभेरीराहत्य क्रियाश्चक्रुर्जयावहाः || ११ ||
संनाह्यान्बलिनो मत्तानानाय्य वरवारणान् |
सम्यगभ्यर्च्य वर्माणि बबन्धुर्विधिनासुराः || १२ ||
यन्त्राणि धौतैर्नाराचैः पूर्णान्यासनपार्श्वयोः |
बबन्धुः शक्तिपूर्णांश्च वेणूंस्तिर्यगवस्थितान् || १३ ||
तोमरान्कणपाञ्छंकूञ्छूलचक्रपरश्वधान् |
आबबन्धुर्नियुक्तांश्च मध्यमासनपार्श्वयोः || १४ ||
सज्जानि परमास्त्राणि बाणधींश्च सुसंस्कृतान् |
सम्पूर्णान्गार्ध्रवासोभिर्निशिताग्रैः शिलीमुखैः || १५ ||
संनाह्यानङ्कुशांल् लोहान्बालेन्दुसदृशद्युतीन् |
ग्रैवेयेषु सितांश्चक्रुर्मध्ये मस्तकपिण्डयोः || १६ ||
क्षुरप्रमालाः संयस्ताः शातकुम्भमयीः शुभाः |
आबबन्धुश्च कुम्भेषु गजानां गजसादिनः || १७ ||
वैजयन्तीपताकाश्च विचित्राः स्वभिलक्षिताः |
उच्छ्रयामासुरायत्ता दन्त्यनीकस्य दानवाः || १८ ||
घण्टा वारणमुख्यानामाससञ्जुर्महास्वनाः |
चामराणि सुदीर्घाणि हंसांसरुचिराणि च || १९ ||
एकैकस्य चतस्रश्च करेण्वश्चारुदर्शनाः |
स्थापिताः पुरतो दैत्यैः परवारणवारणाः || २० ||
यूनो युवभिरारूढाञ्छिक्षितानस्त्रकोविदैः |
चक्रुरग्रेसरानश्वान्वर्मिणो लोहजालिनः || २१ ||
वर्मिणो बद्धकवचाञ्छितनिस्त्रिंशधारिणः |
तेषां पुरःसरान्पत्तीननुयातांश्च धन्विभिः || २२ ||
दैत्ययोधास्ततश्चान्ये वर्मिणो लोहजालिनः |
आरूढा बद्धनिस्त्रिंशाः स्नातपीतांस्तुरंगमान् || २३ ||
केचिद्विनीतैर्युवभिः स्नापितैः कृतमङ्गलैः |
रथान्संयोजयामासुरश्वैरग्रजवैस्तदा || २४ ||
सायुधान्सपताकांश्च किंकिणीजालनादितान् |
अधितस्थुस्तदा केचिद्रथान्हाटकसंस्कृतान् || २५ ||
एवं तत्कल्पितं श्रुत्वा सैन्यं सैन्यनमस्कृतः |
सुन्दो दानवशार्दूलो निर्ययौ कृतमङ्गलः || २६ ||
स्वीषं सुकूबरं स्वक्षं शातकुम्भमयं वरम् |
नानामणिमयैश्चित्रैर्भक्तिपुष्पमृगद्विजैः || २७ ||
युक्तं परमसंहृष्टैर्मनोवेगैस्तुरंगमैः |
आरुह्याथ रथं दिव्यं पताकाध्वजशोभितम् || २८ ||
कवची बद्धनिस्त्रिंशो विधूतसितचामरः |
अभितः स्तूयमानश्च सूतमागधवन्दिभिः || २९ ||
निसुन्दो ऽपि मदश्यामकपोलालीनषट्पदम् |
आरुह्य निर्जगामाशु संग्रामिकमनेकपम् || ३० ||
अन्ये च दानवास्तत्र रथैरश्वैर्मतङ्गजैः |
निर्ययुः परमप्रीत्या युद्धशौण्डाः सुदंशिताः || ३१ ||
बलस्याग्रेसरं कृत्वा तारकाक्षं महासुरम् |
सहितं बहुभिः शूरै रथनागाश्वपत्तिभिः || ३२ ||
पृष्ठतः संविधायाशु बलोन्मत्तं महासुरम् |
बलेन चतुरङ्गेन महिषं परिरक्षणम् || ३३ ||
पार्श्वयोरुभयोर्न्यस्य मेघस्वनमहास्वनौ |
सैन्येन महता गुप्तौ दानवावरिसूदनौ || ३४ ||
मध्ये सुन्दो निसुन्दश्च मयः शम्भुः खरो मुरः |
संनद्धा बलिनः शूराः परसैन्यनिवारणाः || ३५ ||
प्रतस्थिरे सुसंयत्ता दिवं दानवसत्तमाः |
प्रलये मारुतोद्धूता घनाः संवर्तका इव || ३६ ||
तेषामागमनं ज्ञात्वा सह स्वर्लोकवासिभिः |
अपसृत्य जगामाशु जनस्थानं शतक्रतुः || ३७ ||
मेरोः शिखरमारुह्य सर्वे ऽथ सहितास्तदा |
सेनां निवेशयामासुर्नन्दने ते सुरद्विषः || ३८ ||
अथ सैन्यस्य दैत्येन्द्रा रक्षामाधाय सर्वतः |
प्रविभक्तानसम्बाधानावासाञ्जगृहुस्ततः || ३९ ||
दत्तानुज्ञास्ततः सर्वे दानवा दानवोत्तमैः |
संनाह्यमपनिन्युस्ते सर्वोपकरणं तदा || ४० ||
आरूढा गजकन्यासु वर्माणि मुमुचुः शनैः |
आयुधान्यपनीयाशु सैनिका मत्तदन्तिनाम् || ४१ ||
संनाहानपनिन्युश्च मुमुचुः कवचानि च |
तनुत्राणि विचित्राणि तदा दानवसैनिकाः || ४२ ||
अपेतकक्षान्मातङ्गान्स्नातपीतान्गतक्लमान् |
बबन्धुः कल्पवृक्षेषु केचिद्दानवसैनिकाः || ४३ ||
केचित्कल्पद्रुमान्नागा मदसंलीनषट्पदाः |
बभञ्जुर्बलिनस्त्रस्तमत्तोद्भ्रान्तविहङ्गमान् || ४४ ||
चकर्षुर्बलिनः केचिन्मदश्यामान्मतङ्गजाः |
कपोलान्कल्पवृक्षेषु पुष्पालीनालिपङ्क्तिषु || ४५ ||
नागा जगाहिरे केचिन्मत्ता मन्दाकिनीं नदीम् |
हैमवारिजकिञ्जल्कपिञ्जरोपान्तरोधसम् || ४६ ||
विमुक्तसांग्रामिकवर्मजालान्प्रसन्नचित्तान्परिघृष्टकायान् |
निपीततोयानपनीतखेदान्बबन्धुरश्वान्पृथगश्वबन्धाः || ४७ ||
अथ सूक्ष्माणि वासांसि विचित्राः परमस्रजः |
आनिन्युः कल्पवृक्षेभ्यः फलानि मधु चासुराः || ४८ ||
हैमानि केचित्पद्मानि तद्रजोरुणमूर्तयः |
बभञ्जुर्दानवा हृष्टा गता मन्दाकिनीं नदीम् || ४९ ||
आनिन्युः सैनिकाः केचिन्मन्दारकुसुमोत्करान् |
फलान्याजह्रिरे केचित्स्वादूनि च बहूनि च || ५० ||
तत्रोष्य रजनीमेकां भेरीराहत्य दानवाः |
तेनैव विधिना यत्ताः प्रजग्मुरमरावतीम् || ५१ ||
ततस्तूर्यनिनादेन गजानां बृंहितेन च |
सिंहनादैश्च दैत्यानां चचालेवामरावती || ५२ ||
अथ शून्यां समुद्वीक्ष्य पुरीं दानवसत्तमाः |
इत्थमूचुः सुसंहृष्टा नदन्तो भैरवस्वनम् || ५३ ||
जयति विबुधशत्रुः सुन्ददैत्येन्द्रसिंहः
कठिनरुचिरबाहुः पीनविस्तीर्णवक्षाः |
शतमखपुरजेता चारुपृथ्वायताक्षः
सजलघननिनादो मत्तनागेन्द्रगामी || ५४ ||
तदनु जयति चारुप्रान्तरक्तायताक्षो
मृगपतिगतिलीलः संयुगेष्वप्रधृष्यः |
त्रिदशवरविजेता दानवेन्द्रो निसुन्दः
प्रहतमुरजनादः पीनदीर्घोरुबाहुः || ५५ ||
इति स्कन्दपुराण एकषष्टो ऽध्यायः ||