सनत्कुमार उवाच |

ततः स भगवान्देवः सुकेशं गणपं पुनः |
चकार ब्राह्मणं व्यास तपःसत्यपरायणम् || १ ||

व्यास उवाच |

कथं स ब्राह्मणः पूर्वं गणेशत्वमुपागतः |
केनास्य तपसा तुष्टो गणपत्वं ददौ प्रभुः || २ ||

सनत्कुमार उवाच |

आसीद्वसिष्ठकुलजो ब्राह्मणः सत्यवाक्शुचिः |
तीर्थयात्रास्वभिरत उपवासपरायणः || ३ ||
स कदाचिद्विदेशस्थो वने ऽपश्यत्पथि स्थितम् |
व्याघ्रं व्यात्ताननं घोरं नखदंष्ट्रायुधं वरम् || ४ ||
दृष्ट्वा तं स तदा विप्रस्त्यक्त्वा पन्थानमाशुगः |
विवेश महतीं घोरामटवीं प्राणिवर्जिताम् || ५ ||
तत्रापश्यत्स पुरतो वीरणस्तम्बमाश्रितान् |
पुरुषांल् लम्बमानांश्च क्रन्दमानान्सुदुःखितान् || ६ ||
तानवाक्शिरसो दृष्ट्वा लम्बमानांस्तदा द्विजान् |
के यूयमिति पप्रच्छ ते चैवमिदमूचिरे || ७ ||
तव स्मः पितरः सर्वे नरके ऽस्मिन्नधोमुखाः |
वीरणे त्वयि लम्बामस्तव दोषेण दुर्मते || ८ ||
पुत्रानिच्छन्ति मनुजास्तारयिष्यन्ति नस्त्विमे |
नरकादिति स त्वं नः पातयिष्यसि दुःखितान् || ९ ||

विप्र उवाच |

मया तीर्थाभिगमनात्तपो यत्समुपार्जितम् |
जन्मप्रभृति यच्चापि मया किंचित्कृतं शुभम् |
तेन यूयमितो गर्तादुद्धरध्वं पितामहाः || १० ||

पितर ऊचुः |

न वयं तपसा शक्या न यज्ञेनाप्यतो ऽन्यथा |
गर्तादस्मात्समुद्धर्तुं यद्ब्रूमस्तत्कुरुष्व नः || ११ ||
अपत्यं गुणसंयुक्तमुत्पादय तपोयुतम् |
ततो वयमितो गर्तान्मुच्येम यदि मन्यसे || १२ ||

विप्र उवाच |

ऊर्ध्वरेताहमित्येतन्मया व्रतमुदाहृतम् |
न दारानाहरिष्यामि तारयिष्ये च वै पितॄन् || १३ ||
ततः स तांस्तदोत्सृज्य दुःखेन महता वृतः |
जगाम रुद्रं शरणं पितरो ऽन्तर्हितास्ततः || १४ ||
पितृष्वन्तर्हितेष्वेवं वायुभक्षस्तदा द्विजः |
काष्ठलोष्टोपलीभूतो निरुच्छ्वासो ऽवतिष्ठत || १५ ||
संधाय स मनो रुद्रे निश्चलं सुसमाहितः |
हृदयेन जपन्रुद्रानाकाशे समतिष्ठत || १६ ||
तस्य पूर्णे तदा मासि वातवर्षमभून्महत् |
सर्वसत्त्वप्रमथनं दुःसहं भीमशब्दवत् || १७ ||
तेन वर्षेण महता नैव तस्याभवत्तदा |
दुःखं वाप्यथवा भङ्गः सम्यगेवावतस्थिवान् || १८ ||
अथ तं भगवान्देवो मासे वर्तति सप्तमे |
विष्णुरूपधरो भूत्वा प्रोवाच द्विजसत्तमम् || १९ ||
तुष्टो ऽस्मि तव भद्रं ते तपसानेन सुव्रत |
वरं वरय विप्रर्षे यस्ते मनसि वर्तते || २० ||
सुकेशस्तु ततो दृष्ट्वा नारायणमुपागतम् |
अब्रवीच्छंकरादिच्छे वरं न भवतो ह्यहम् || २१ ||

विष्णुरुवाच |

अलमेतेन विप्रर्षे निर्बन्धेन हरं प्रति |
देवैरपि न शक्यो ऽसौ द्रष्टुं किमुत मानुषैः || २२ ||

सुकेश उवाच |

शंकरादेव चक्रेश शुभं वा यदि वाशुभम् |
वरं कांक्षे न च त्वत्तो न चान्यस्मात्कथंचन || २३ ||
भवन्तो ऽपि हि तं देवं यस्मात्सर्वे समाहिताः |
अर्चयध्वं स्तुवध्वं च तस्माच्छ्रेष्ठः स उच्यते || २४ ||
तस्य तं निश्चयं ज्ञात्वा तुतोष भगवान्हरः |
उवाच चैनं विप्रेन्द्र गणपो मे भवाक्षयः || २५ ||
अमरो जरया त्यक्तः सर्वदुःखविवर्जितः |
ऐश्वर्येण च संयुक्तः प्रियो मम पुरःसरः || २६ ||
इदं च मत्कृतं दिव्यं त्रिकूटं नाम पर्वतम् |
भवनैः काञ्चनैर्युक्तं कामगं ते ददाम्यहम् || २७ ||
येषां कृते च त्वं पुत्र मां तोषयितुमुद्यतः |
ते चेमे पितरः सर्वे सुपुत्रेण त्वयानघ |
तारिता नरकाद्घोराद्गणेशत्वमुपस्थिताः || २८ ||
किंकरास्ते भविष्यन्ति नित्यं दुःखविवर्जिताः |
गणेश्वरास्तवैवेमे भविष्यन्ति वशानुगाः || २९ ||
सुकेश इति नाम्ना च प्रथितस्त्वं भविष्यसि |
सदा चाष्टगुणैश्वर्यसमायुक्तश्चरिष्यसि || ३० ||

सनत्कुमार उवाच |

ततः स दृष्ट्वाथ पितॄन्नरकात्ससुहृज्जनान् |
तीर्णान्गणेश्वरत्वेन पुनः पूज्येन संयुतान् || ३१ ||
महेश्वरं हृष्टमनाः शिरसा प्राञ्जलिर्नतः |
उवाच हर्षमाणास्यस्तदा वचनकोविदः || ३२ ||

सुकेश उवाच |

भगवन्गणपत्वं च लब्धमैश्वर्यमेव च |
अमरत्वं तथाक्षय्यं तथैवाजरता वरा || ३३ ||
पितरस्तारिताश्चेमे गणपाश्चैव मे कृताः |
नगश्च कामगो ह्येष लब्धो मे त्वत्प्रसादतः || ३४ ||
इच्छामि त्वां महादेव सोमं सप्रवरेश्वरम् |
सदा सुमुखमत्यर्थं सुदृश्यं चैव कामद || ३५ ||

सनत्कुमार उवाच |

स एवमुक्तो भगवान्सुकेशेन महात्मना |
उवाचैवमिदं सर्वं भविष्यति गणेश्वर || ३६ ||
इमं गिरिं समाश्रित्य सहैभिः प्रवरैर्वरैः |
गच्छ स्वेष्टां गतिं वत्स देवान्विप्रांश्च पालय || ३७ ||
विसृज्य तं महादेवः सुकेशं गणनायकम् |
जगामादर्शनं सोमः सर्वेषामेव पश्यताम् || ३८ ||
सुकेशो ऽपि गिरौ तस्मिन्नगरे स्वर्गसंनिभे |
नरकाणां स तत्त्वार्थं पितॄन्पप्रच्छ यत्नतः || ३९ ||

व्यास उवाच |

किमर्थं गणपो ब्रह्मंस्तान्पितॄन्पर्यपृच्छत |
कथं च पितरस्तत्र आचख्युस्तस्य धीमतः || ४० ||
एतद्विस्तरशस्तात संक्षेपाद्वा यथातथम् |
त्वत्तो ऽहं श्रोतुमिच्छामि हितं सर्वसुखावहम् || ४१ ||
स एवमुक्तः सुरसृक्सुतः प्रभुर्विमानकर्ता विगतप्रयोजनः |
जगाद वाक्यं सुरलोकबन्धनं पुराकृतं दुष्कृतसर्वनाशनम् || ४२ ||
इति स्कन्दपुराणे पञ्चत्रिंशो ऽध्यायः ||