सनत्कुमार उवाच |

त्रिकूटशिखरे तस्मिन्नगरे देवनिर्मिते |
आसीनः काञ्चने दिव्ये विमाने स्त्रीजनाकुले || १ ||
पितॄन्सर्वान्समाहूय संपूज्य विधिवत्तदा |
सुखोपविष्टांस्तान्दृष्ट्वा इदं वचनमब्रवीत् || २ ||
युष्माकं तेजसा सर्वमिदमैश्वर्यमीदृशम् |
भवद्भिस्तत्कृतं देवा येनास्मि सुखभाक्कृतः || ३ ||

पितर ऊचुः |

मैवं वदानृतं पुत्र माधर्मस्ते भवेदिह |
नास्मत्प्रसादादैश्वर्यं तव पुत्र कदाचन || ४ ||
वयं तु निरये घोरे यात्यमानाः सुदारुणे |
तव देवस्य वीर्येण सुखमापुः सुदुर्लभम् || ५ ||
त्वया वयं सुपुत्रेण तारिता निरयाद्यथा |
तथा नान्यं प्रपश्याम धन्यानां त्वं सुतो हि नः || ६ ||
अद्य वर्षसहस्राणि बहूनि निरये वयम् |
पच्येम घोरे दुर्वृत्ता बन्धुः स्यात्त्वं न नो यदि || ७ ||
बहवः प्राणिनः पुत्र यात्यन्ते तत्र संयताः |
अतिघोरे सुदुर्वृत्तास्तपस्तेषां न विद्यते || ८ ||

सुकेश उवाच |

पितरो नोक्तपूर्वं मे मृषा न च वदामि वै |
यथा प्रभावाद्युष्माकमैश्वर्यं मम तत्तदा || ९ ||
शृणुध्वं वदतः सम्यङ्मावमंस्था वचो मम |
न चावमन्ये पितरो देवतान्को ऽवमन्यते || १० ||
पितरः कर्म कुर्वन्ति सतां यत्संमतं भुवि |
नित्यं चाशासते तेन प्रजा नः सन्तु पुष्कलाः || ११ ||
धार्मिकाश्च कृतज्ञाश्च सत्कर्मरतयस्तथा |
ये नो नरकगर्तस्थांस्तारयिष्यन्ति नित्यशः || १२ ||
तेषां तत्कार्यकरणात्स्वधर्माच्यवनेन च |
स धर्मो ऽनुष्ठितः सम्यक्प्रजा जनयते शुभाः || १३ ||
धार्मिकाश्च वदन्याश्च कृतज्ञाः सत्पथि स्थिताः |
पितृभक्ताश्च सर्वत्र पितॄणां तारणे रताः || १४ ||
सो ऽहं भवद्भिर्धर्मेण परेण च समाधिना |
जनितस्तपसा युक्तो भवतामेव सर्वशः |
देवमाराध्य नरकात्पितॄंस्तारितवान्पुनः || १५ ||
एष प्रभावो युष्माकं तपः सुचरितं च ह |
ममात्र किं महाप्रज्ञा अनृतं वात्र किं वचः || १६ ||
इयं च वैदिकी शुभ्रा श्रुतिर्वेदविदां वराः |
प्रमाणं यदि मन्यध्वमात्मना कृतमित्युत || १७ ||
अङ्गादङ्गात्संभवसि हृदयादधिजायसे |
आत्मा वै पुत्रनामासि स जीव शरदः शतम् || १८ ||
अङ्गेभ्यो ऽहं समुत्पन्नो युष्माकं हृदयाच्च ह |
आत्मनाहं तथात्मानं युष्मांस्तारितवांस्तथा || १९ ||
तस्माद्भवन्तो मन्यन्तु सर्व एव समाधिना |
तस्माद्धि घोरनरकात्तारिताः स्वेन कर्मणा || २० ||
न चान्यकर्मणा कश्चिदन्यस्तरति दुर्गतिम् |
स्वकर्मणा हि जन्तूनां फलपाको विधीयते || २१ ||

सनत्कुमार उवाच |

ततस्त एवं पितरस्तेन प्रोक्ता महात्मना |
हर्षेण सास्रुनयना इदमूचुस्तदा वचः || २२ ||

पितर ऊचुः |

त्वदन्यः को वदेदेवं यो न स्यादीशसंमतः |
युक्तमेतत्तव वचो धार्मिकस्य महात्मनः || २३ ||
यो न स्यादीदृशः पुत्र कथं तं सर्वदेवपः |
इष्टैस्तु योजयेत्सम्यग्यथा त्वां गोवृषध्वजः || २४ ||
त्वं धाता त्वं हि नो बन्धुस्त्वं जनेता महामते |
पिता त्वमेव पुत्रा हि वयं तव न संशयः || २५ ||
अत्र ते वर्तयिष्यामः पुरावृत्तं महामते |
श्रुतौ स्मृतौ च यद्गीतं तन्नः संस्मर्तुमर्हसि || २६ ||

पितर ऊचुः |

पुत्रा हि ब्रह्मणा सृष्टा देवा यजत मामिति |
ते ऽयजन्त तदात्मानं तेषां ब्रह्मा चुकोप ह |
उवाच चैनान्संरब्धो नष्टसंज्ञा भविष्यथ || २७ ||
ते शप्तास्तं तदा देवं सर्व एव दिवौकसः |
दुःखशोकसमायुक्ता ब्रह्माणं तुष्टुवुस्तदा || २८ ||
प्रसन्नं तं समालक्ष्य त ऊचुः शिरसा नताः |
नष्टसंज्ञा वयं देव तन्नो यच्छ पुनः प्रभो |
तत्क्षमस्व च देवेश अज्ञानाद्यत्कृतं हि नः || २९ ||
अथैवमुक्तो देवैस्तैर्ब्रह्मा लोकपितामहः |
उवाच प्रणतान्देवान्सानुक्रोशमिदं वचः || ३० ||
प्रायश्चित्तं महासत्त्वाश्चरध्वं नियमेन ह |
व्यभिचारकृतं सर्वं ततः पापं प्रहास्यथ || ३१ ||

देवा ऊचुः |

सैव संज्ञा न नो देव विद्यते सर्वसृक्प्रभो |
यया ज्ञास्यामहे तानि प्रायश्चित्तानि लोकप || ३२ ||

ब्रह्मोवाच |

स्वान्पुत्रान्परिपृच्छध्वं ततः श्रेय अवाप्स्यथ |
पुनः संज्ञां च धर्मज्ञा मा कुरुध्वमतो ऽन्यथा || ३३ ||

पितर ऊचुः |

ततस्ते सुरशार्दूलाः पप्रच्छुः स्वान्सुतांस्तदा |
प्रायश्चित्तानि धर्मांश्च वेदान्साङ्गान्सुविस्तरान् || ३४ ||
ते च तेभ्यस्तदा पुत्रा आचख्युः प्रयताः शुभाः |
याथातथ्येन तत्सर्वं परमेण समाधिना || ३५ ||
अथ ते लब्धसंज्ञाश्च लब्धकामास्तथैव च |
स्वान्पुत्रानभ्यभाषन्त प्रीयमाना मुदा युताः || ३६ ||

देवा ऊचुः |

पुत्रा न यूयमस्माकं वयं पुत्रा हि वः सुताः |
यैर्ज्ञानं नष्टसंज्ञानां कृतमस्माकमव्ययम् || ३७ ||
तैरेवमुक्ते तत्रागाद्ब्रह्मा लोकपितामहः |
उवाच चेदं तान्देवान्सर्वानेव महायशाः || ३८ ||

ब्रह्मोवाच |

वदन्ति नानृतं देवाः सत्यं देवेषु वर्तते |
सुताश्चोक्ता हि वः सर्वे पितरो नानृतं हि तत् || ३९ ||
तस्मात्पितृत्वं युष्माकं पुत्राणां नित्यमव्ययम् |
भविष्यति न संदेहो यूयं पुत्राश्च सर्वशः || ४० ||
न ह्यशिष्याय कथ्यन्ते रहस्यानि कथंचन |
एकार्थौ पुत्रशिष्यौ च तस्मात्पुत्राः स्थ सर्वशः || ४१ ||
तरन्ति पुत्रैः पितरः पुत्रांस्तांस्तारयन्ति च |
तारयित्वा पितृत्वं च कर्मणा तेन यान्ति ते || ४२ ||
यूयं च तारिताः पुत्रैरज्ञानान्नरकात्तथा |
तस्मादिमे हि पितरो यूयं पुत्राश्च सर्वशः || ४३ ||
पाति यस्मात्पिता तस्माज्जनयत्यपि वा पिता |
पुत्रेषु चैतदुभयं पितरस्तेन वो मताः || ४४ ||
ततस्ते ब्रह्मणः श्रुत्वा याथातथ्येन तद्वचः |
पितॄंस्तु तान्सुतान्मत्वा पुत्रत्वमुपपेदिरे || ४५ ||
ते पुत्रभावमासाद्य प्रीतात्मानो महाबलाः |
पितरस्तान्वरैरिष्टैश्छन्दयामासुरव्यथाः || ४६ ||
पितरश्च ततो वव्रुरग्रे यजनमात्मनः |
यो नो ऽनिष्ट्वा यजेद्देवान्न तत्फलमवाप्नुयात् || ४७ ||
एनसा चाभिसंयुक्तो महानिरयभाग्भवेत् |
†अबुद्ध्वा† तेन देवाश्च तं हन्युः पापचेतसम् || ४८ ||
एवमस्त्विति तानुक्त्वा देवास्ते ऽतिगुणोदिताः |
यथागतं ततो जग्मुर्ब्रह्मणा सह सर्वशः || ४९ ||

पितर ऊचुः |

तथा वयं त्वया पुत्र नरकान्नष्टचेतसः |
तारिताश्चेतनावन्तः पुनश्च प्रवरीकृताः || ५० ||
पिता ततो भवान्पूज्यो यो नु पासि महाभयात् |
पुत्रा वयं तवेशान ब्रूहि किं करवाम ते || ५१ ||

सनत्कुमार उवाच |

स एवमुक्तस्तेजस्वी सुकेशो गणसत्तमः |
प्रणतः प्राञ्जलिर्भूत्वा पितॄन्वचनमब्रवीत् || ५२ ||
एवमेतद्यथोक्तं वो नानृतं वो वचः शुभम् |
परस्परपितृत्वं हि सर्वेषां समुदाहृतम् || ५३ ||
वरं भूय इमं मह्यं प्रयच्छत गणेश्वराः |
एतेन प्रश्नमिच्छामि कथितं द्विजसत्तमाः || ५४ ||

पितर ऊचुः |

नास्ति किंचिदविदितं भवतः प्रवरेश्वर |
भवानस्मत्प्रमाणार्थं व्याख्यातत्वमिहेच्छसि || ५५ ||
ब्रूहि यद्विदितं नो ऽस्ति कथयिष्याम तद्धि ते |
श्रुतं यदनुभूतं वा यथाशक्ति यथाबलम् || ५६ ||

सुकेश उवाच |

भवन्तो नरके घोरे परिक्लिष्टाः सुदारुणे |
अतो गतिज्ञाः सर्वेषां नरकानां न संशयः || ५७ ||
तेषां सतत्त्वं योगं च कालभेदं तथा क्रमम् |
तत्सर्वं श्रोतुमिच्छामि परं कौतूहलं हि मे || ५८ ||
कियन्तो नरकास्ते च किम्प्रमाणाः किमाश्रयाः |
किंरूपाः के च यात्यन्ते कथं चैव सुदुःखिताः || ५९ ||
कथं च पतते जन्तुर्यात्यते च कथं तथा |
कियता चैव कालेन नरकात्स विमुच्यते |
मुक्तश्चोत्तिष्ठते केन कथं संतरते पुनः || ६० ||
एतत्सर्वमशेषेण विस्तरेण यथातथम् |
कथयध्वं महाप्रज्ञाः परं कौतूहलं हि मे || ६१ ||
तमुपेन्द्रपितामहेश्वरेशप्रवरेशं विदितार्थतत्त्वकोशम् |
दुरिताङ्कितपापयुक्तयोगं प्रतियोगं त्विदमाहुरग्रयोगम् || ६२ ||
स्कन्दपुराणे षट्त्रिंशत्तमो ऽध्यायः ||