स्वार्थानुमानम्
अनुमानं द्विविधं स्वार्थं परार्थं च । स्वस्मै यत्तत्
स्वार्थमनुमानं ज्ञानात्मकम् । पर्वतादौ धर्मिणि धूमादिकं दृष्ट्वा
यस्य प्रतिपत्तुः वह्निज्ञानमुत्पद्यते, स एव तेन ज्ञानेन परोक्षमर्थं
प्रतिपद्यते नान्य इति स्वार्थानुमानमुच्यते । परस्मै यत्तत्
परार्थम् । परार्थानुमानं वचनात्मकम् । त्रिरूपलिङ्गप्रतिपादकं
वचनं परं प्रतिपादयति ज्ञापबतीति कृत्वा वचनमप्यनुमान
शब्देनोच्यते, उपचारात्, यथा आयुर्घृतमिति । तत्र स्वार्थं
त्रिरूप 92लिङ्गाद्यदनु93मेये ज्ञानम् । रूपत्रययुक्ताल्लिङ्गादनुमेये
परोक्षविषये यत् ज्ञानं प्रतिपत्तुरुत्पद्यते, तत् स्वार्थानुमानम् ।
तच्च धर्मविशेषसम्बन्धितया साध्याविनाभावित्वनिश्चय इत्येके ।
अग्न्यध्यवसाय इत्यन्ये ।
संप्रति लिङ्गस्य 94त्रिरूपत्वमुच्यते--अनुमेथे सत्त्वमेव
निश्चितम् । अनुमेये पर्वतादौ धर्मिणि लिङ्गस्यास्तित्वमेव
निश्चितं, तदेकं रूपं पक्षधर्मतासंज्ञकम् । अत्र सत्त्वग्रहणेना
सिद्धस्य निरासः, यथा--95अनित्य96श्शब्दश्चाक्षुषत्वात्,
चाक्षुषत्वं चक्षुर्विज्ञानग्राह्यत्वमुच्यते, तच्च शब्दे
धर्मिणि नास्ति । एवकारेण पक्षैकदेशासिद्धस्य निरासः,
25
यथा दिगम्यरप्रयोगः--चेतनास्तरवः स्वापात् । पत्रसङ्कोच
लक्षणो हि स्वापः, स च सर्वेषु तरुप्वसिद्धः । निश्चितग्रह
णेन सन्दिग्धासिद्धस्य 97निरासः98, यथा--अग्निरत्र बाष्पादित्वेन
सन्दिह्यमानाद्भूतसङ्घातात् । सत्वशब्दात्पश्चादेवकारेण असा
धारणस्य 99निरासः100, यथा--अनित्यश्शब्दः श्रावणत्वात् 101घट
बत् ॥
सपक्ष एव सत्त्वं निश्चितमिति वर्तते । समानः पक्षः
सपक्षः । पक्षेण सह सदृशो दृष्टान्तधर्मीत्यर्थः । सपक्ष एव
सत्त्वं निश्चितमित्यन्वयसंज्ञकं द्वितीयं रूपम् । 102अत्र सत्त्व
ग्रहणेन विरुद्धस्य निरासः, यथा--शब्दो नित्यः कृतकत्वात्
घटवत् । कृतकत्वं हि नित्यत्वविपक्षेणानित्यत्वेन व्याप्तमिति
विरुद्धमुच्यते । एवकारेण साधारणस्य निरासः, यथा—
नित्यश्शब्दः प्रमेयत्वात् घटवत् । प्रमेयत्वं हि विकल्पविषयी
कृतत्वम्, तच्च सपक्षे आकाशे विपक्षे च घटादौ सर्वत्रा
स्तीति साधारणमुच्यते । सत्त्वशब्दात् पूर्वस्मिन्नेवकारेण
सर्वसपक्षाव्यापिनोऽपि प्रयत्नानन्तरीयकस्य हेतुत्वं कथितम् ।
यथा--अनित्यश्शब्दः प्रयत्नानन्तरीयकत्वाद्धटवद्विद्युद्वत् ।
निश्चितग्रहणेन सन्दिग्धान्वयस्य निरासः, यथा--असर्वज्ञोऽयं
कश्चित् वक्तृत्वादिष्टपुरुषवत् । इष्टपुरुषे सपक्षे च वक्तृत्वम
सर्वज्ञत्वेन व्याप्तमव्याप्तं वा न ज्ञायते ॥
26
असपक्षे चासत्त्वमेव 1निश्चितम्1104 । न सपक्षोऽसपक्षः ।
तत्रासत्त्वमेव 1निश्चितं 1105व्यतिरेकसंज्ञकं तृतीयं रूपम् । अत्रा
प्यसत्त्वग्रहणेन विरुद्धस्य निरासः । 2यथा नित्यश्शब्दः कृत
कत्वाद्धटवत् । विरुद्धो हि विपक्षेऽस्ति2106 । एवकारेण साधा
रणस्य 3विपक्षैकदेशवृत्तेर्निरासः । प्रयत्नानन्तरीयकः शब्दः
अनित्यत्वाद्धटवत् । प्रयत्नानन्तरीयकत्वे साध्ये अनित्यत्वं
विपक्षैकदेशे विद्युदादावस्ति । आकाशादौ नास्ति । ततो
नियमेनास्य निरासः । असत्त्ववचनात्पूर्वस्मिन्नवधारणे अय
मर्थः स्यात् । विपक्ष एव यो नास्ति स हेतुः । तथा च
प्रयत्तानन्तरीयकत्वं सपक्षेऽपि नास्ति, ततो न हेतुः स्यात्,
ततः पूर्वं न कृतमिति3107 । निश्चितग्रहणेन सन्दिग्धविपक्षव्या
वृत्तिकस्य निरासः । यथाऽवीतरागोऽयं पुरुषो वक्तृत्वात्,
रथ्यापुरुषवत् । यत्रावीतरागत्वं नास्ति तत्र वक्तृ..मपि, नास्ति,
यथोपलखण्डे । यदि नाम पाषाणखण्डादुभयं व्यावृत्तं तथापि
न ज्ञायते किमवीतरागत्वनिवृत्त्या पाषाणखण्डाद्वक्तृत्वं निवृत्तं,
आहोस्वित् स्वत एवेति । ततः सन्दिग्धव्यतिरेकोऽयमनै
कान्तिकः । *असत्त्वशब्दात्पश्चा 4108देवकारेण विपक्षैकदेशवृत्ते
र्निरासः । यथा--प्रयत्नानन्तरीयकश्शब्दोऽनित्यत्वात् । अनि
त्यत्वं विपक्षादाकाशान्निवृत्तं, न विद्युतः । ततो विपक्षैकदेश
वृत्तित्वमस्य ॥
27
ननु सपक्ष एव सत्त्वमित्युक्ते सामर्थ्यादेवासपक्षे चा
सत्त्वमिति गम्यते । तत्किमर्थमुभयोरुपादानमिति चेत्, विपक्ष
नियमार्थमिति पूर्ववृद्धाः । ते च त्रिविध एव विपक्षो भव
तीति मन्यन्ते । साध्याभावमात्रं, साध्यादन्यः, साध्येन सह
विरुद्धश्च । प्रयोगनियमार्थमिति केचित् । 1अन्वयप्रयोगो
व्यतिरेकप्रयोगो वा नियमवानेकः प्रयोक्तव्यो न द्वावपीति ।
साधर्म्यवैधर्म्यप्रयोगसूचनार्थमिति केचित् ।1109
त्रिरूपाणि च त्रीण्येव लिङ्गानि । त्रीणि रूपाणि येषां
तानि 110त्रिरूपाणि 111त्रीण्येव लिङ्गानि । कार्यं त्रिरूपं
लिङ्गम् । स्वभावस्त्रिरूपं लिङ्गम् । अनुपलब्धिस्त्रिरूपं लिङ्गम् ।
साधनं ज्ञापकं हेतुर्व्याप्यं चेति लिङ्गापरनामानि । तत्र
कार्यं यथा--यत्र धूमस्तत्राग्निर्यथा महानसे, धूमश्चात्रेति । व्या
प्तिपक्षधर्मतासंज्ञकं द्व्यवयवमेव साधनवाक्यं सौगतानाम् ।
अन्ये तु प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनं चेति पञ्चावयवं
साधनवाक्यमाहुः । उपन्यासश्चेदृशः--अग्निरत्र, धूमात्,
यत्रधूमस्तत्राग्निर्यथा महानसे, तथा चायं, तस्मादग्निरिति ।
एतच्चायुक्तम् । प्रतिज्ञावचनमात्रात्सम्बन्धरहितात् साध्यप्रति
पत्तेरयोगात् । सम्बन्धाभावस्तु शब्दार्थयोः सम्बन्धदूषणे
112प्रतिपादितत्वा113न्न पुनरुच्यते । प्रतिज्ञामन्तरेण पञ्चम्यन्तहेतु
प्रयोगोऽप्ययुक्तः । हेतुं विनोपनयदृष्टान्तावप्ययुक्तौ । यत्र
28
प्रतिज्ञैव नास्ति तत्र प्रतिज्ञायाः पुनर्वचनं निगमनं कुतो
भविष्यतीति सर्वमामूलं विशीर्णम् । अयं च कार्यहेतुर्विषय
भेदेन त्रिविधः । अग्न्यादौ साध्ये धूमादिः त्रिविधप्रत्यक्षा
नुपलम्भेन निश्चेतव्यः । चक्षुरादौ साध्ये ज्ञानं कादाचित्क
कार्योत्पादान्निश्चीयते । रूपादौ साध्ये रसादिरेकसामग्र्य
धीनतया निश्चीयते । यथा भातुलुङ्गफले रसाद्रूपानुमानम् ।
1न रूपाद्रसानुमानम्1114 । अत्र रूपे जनयितव्ये पूर्वकं रूप
मुपादानम् । रसस्तु सहकारिकारणम् । पूर्वपुञ्जादुत्तरपुञ्ज
स्योत्पत्तौ न्याय एषः । ननूपादानसहकारिकारणयोरन्वय
व्यतिरेकानुविधानस्य कार्यं प्रति तुल्यत्वात्को भेदः ? उच्य
ते । यद्विक्रियया यन्निष्पत्तिरेकसन्ताने तत्कार्यं प्रति पूर्वक
मुपादानम् । यत्सन्तानान्तरे विशेषोदयनिमित्तं तत्सहकारि
कारणम् । यथा शाल्यङ्कुरे जनयितव्ये शालिबीजमुपादानम्,
क्षितिसलिलादि तत्र सहकारि । तदेवं कार्यहेतुस्तदुत्पत्तिस
म्बन्धात् गमक इति स्थितम् ॥
1स्वभावो यथा1115--स्वभावः स्वसत्तामात्रभाविनि सा
ध्यधर्मे यो हेतुरुच्यते स तस्य साध्यस्य धर्मस्य स्वाभावो
116वोद्धव्यः । यथा--वृक्षव्यवहारयोग्योऽयं शिंशपाव्यवहारयो
ग्यत्वात् । अयमिति पुरः परिदृश्यमानः पदार्थो धर्मी ।
शिंशपाव्यवहारयोग्यत्वादिति हेतुः । शिंशपाव्यवहारयोग्य
29
त्वादिति कोऽर्थः ? शाखापत्रवर्णसंस्थानविशेषव्यवहारयो
ग्यत्वादित्यर्थः । वृक्षव्यवहारयोग्यत्वं साध्यम् । नन्वेकत्वे
साध्यसाधनभावो न युक्तः, प्रतिज्ञार्थैकदेशत्वात् । न ।
अभेदेऽपि कश्चित्प्रतिपत्ता शिंशपाव्यवहारं कृत्वा तत्र वृक्ष
व्यवहारं प्राक् कृतमपि व्यामोहात् किञ्चिदारोप्य पुनर्न
करोति । स इदानीं स्वभावहेतुना व्यवहार्यते । तस्मादेतयोः
परमार्थत एकत्वेऽपि विकल्पबुद्धौ व्यावृत्तिसमाश्रयेण समु
त्पन्नायां भेदेन प्रतिभासनात् साध्यसाधनत्वं न विरुध्यत
इति ॥
अनुपलब्धिर्यथा--नास्तीह प्रदेशे घटः, उपलब्धि
लक्षणप्राप्तस्यानुपलब्धेः । उपलब्धिलक्षणप्राप्तस्येति दृश्यस्ये
त्यर्थः । नन्वसतः कथं दृश्यता ? एकेन्द्रियज्ञानग्राह्ये प्रदेशा
दावुपलभ्यमाने यदि घटः स्यात् दृश्य एव भवेदिति । उप
लम्भप्रत्ययान्तरसाकल्यात् दृश्यतया सम्भावितः, न तु दृश्य
एव । तस्यानुपलब्धेरिति हेतुः । स चैकज्ञानसंसर्गिपदार्थादेक
ज्ञानसंसर्गिपदार्थोपलम्भाद्वा निश्चीयत इति तदुभयं कर्मकतृ
भावेन पर्युदासवृत्त्या अनुपलब्धिरुच्यते, न तु प्रसज्यवृत्त्या
उपलब्धिनिवृत्तिमात्रम् । तद्धि स्वयमेव न किञ्चिदिति कथं
साधनं स्यात् । नापि प्रतिषेध्यादन्यस्य ज्ञानमात्रम्, रूपोपलम्भा
दपि नारङ्गरसनिषेधप्रसङ्गात् । तस्मान्निषेध्यादन्यद्विशिष्टमेव
वस्तुद्वयं प्रदेशः प्रदेशज्ञानं वाऽनुपलब्धिरिति स्थितम् । अत
30
एवाभावो न साध्यते । तस्य घटविविक्तप्रदेशग्राहिणा प्रत्य
क्षेणैव सिद्धत्वात् । अभावव्यवहारस्तु मूढं प्रति अनुपलम्भेन
साध्यते । तथा हि--कश्चिन्मूढो रजःप्रभृतिषु साङ्ख्यप्रसि
द्धेषु गुणेष्वनुपलम्भेन प्रवर्तिताभावव्यवहारोऽपि पुनः सर्वं
सर्वत्रास्तीति स्वसिद्धान्ताभ्यासात् क्वाऽपि प्रदेशादौ घटानु
पलम्भे सत्यपि नाभावव्यवहारं करोतीत्यनुपलम्भेन त्रिविधो
व्यवहारः कार्यते । तत्र निःशङ्करामनागमनलक्षणः कायिको
व्यवहारः । घटो नास्तीति वाचिकः । ईदृश एव अन्तर्ज
ल्पाकारो मानसिकश्चेति । अनुपलम्भस्य कर्मधर्मपक्षे साध्येन
सह सादृश्ये117 तादात्म्यलक्षण एव सम्बन्धो बोद्धव्यः । कर्तृ
धर्मपक्षे तु तदुत्पत्तिः । तथा हि--घटविविक्तप्रदेशः प्रदेश
ज्ञानं वाऽनुपलब्धिरित्युक्तम् । असद्व्यवहारयोग्यत्वं च तस्य
स्वभावः न कार्यं118 ज्ञानं तु प्रदेशस्य कार्यमिति ॥
ननु यद्यनुपलब्धेरपि तादात्म्यतदुत्पत्ती एव सम्बन्धौ,
कथं तर्हि कार्यस्वभावाभ्यामनुपलब्धेर्भेदः ? प्रतिषेधसाध
नात् भेदो न वस्तुतः । यथोक्तमाचार्येण--अत्र द्वौ वस्तु
साधनौ, एकः प्रतिषेधहेतुः इति । उपलब्धिलक्षणप्राप्तत्व
विशिष्टेन देशविप्रकृष्टे सुमेर्वादौ कालविप्रकृष्टे भविष्यच्छङ्ख
चक्रवर्त्यादौ स्वभावविप्रकृष्टे पिशाचादावनुपलम्भमात्र 119सम्भ
वेऽपि नाभावव्यवहार इत्युक्तं भवति । इयं चानुपलब्धिर्वर्त
31
मानकाले प्रमाणं विशिष्टस्मरणसद्भावेऽतीतकाले च, अनागत
काले त्वनुपलब्धिः स्वयमेव सन्दिग्धरूपा । ततो न प्रमाणम् ।
अनयाऽनुपलब्ध्याऽभावव्यवहारः साध्यते, न त्वभावः । तस्य
प्रत्यक्षेणैव सिद्धत्वादित्युक्तम् प्राक्120 121यथाऽऽह न्यायवादी—
अमूढस्मृतिसंस्कारस्यातीतस्य वर्तमानस्य च प्रतिपत्तृ
प्रत्यक्षस्य निवृत्तिरनुपलब्धिरभावव्यवहारसाधनी इति ।
तत्र यदा दूरत्वान्निषेध्यस्यायोग्यदेशत्वं स्यात्, तदा दृश्या
नुपलब्धिः साक्षात्प्रयोक्तुं न शक्यत इति कार्यानुपल
ब्ध्यादयः प्रयुज्यन्ते । अत एवेयं प्रयोगभेदेन षोडशधा
भवति ।
- १ तत्र स्वभावानुपलब्धिर्यथा--नास्त्यत्र धूमः,
उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः । प्रतिषेध्यस्य धूमस्य यः
स्वभावः तस्येहानुपलब्धिः । - २ कार्यानुपलब्धिर्यथा--नेहा
प्रतिबद्धसामर्थ्यानि धूमकारणानि सन्ति, धूमाभावात् ।
प्रतिषेध्यानां हि धूमकारणानां कार्यं धूमः, तस्येहानुपलब्धिः । - ३ कारणानुपलब्धिर्यथा--नास्त्यत्र धूमः दहनाभावात् । प्रति
षेध्यस्य धूमस्य कारणं दहनः, तस्येहानुपलब्धिः । - ४ व्यापका
नुपलब्धिर्यथा--नात्र शिंशपा, वृक्षाभावात् । प्रतिषेध्यायाः
शिंशपायाः व्यापको वृक्षः, तस्येहानुपलब्धिः । - ५ स्वभावविरु
द्धोपलब्धिर्यथा--नात्र शीतस्पर्शः वह्नेरिति । प्रतिषेध्यस्य शीत
32 स्पर्शस्य यः स्वभावः तस्य विरुद्धो वह्निः तस्य चेहानुपलब्धिः । - ६ कार्यविरुद्धोपलब्धिर्यथा--नेहाप्रतिबद्धसामर्थ्यानि शीत
कारणानि सन्ति, वह्नेरिति । अन्त्यदशाप्राप्तमेव कारणं कार्यं
जनयति, न सर्वं कारणम् ततो विशेषणोपादानम् । प्रतिषे
ध्यानां शीतकारणानां कार्यं शीतं, तस्य विरुद्धो वह्निः, तस्ये
होपलब्धिः । - ७ कारणविरुद्धोपलब्धिर्यथा--नास्य रोमहर्षादि
विशेषाः सन्ति, सन्निहितदहनविशेषत्वात् । प्रतिषेध्यानां
रोमहर्षादिविशेषाणां कारणं शीतं, तस्य विरुद्धो दहनविशेषः,
तस्य चेहोपलब्धिः । - ८ व्यापकविरुद्धोपलब्धिर्यथा--नात्र
तुषारस्पर्शः, दहनात् । प्रतिषेध्यस्य तुषारस्पर्शस्य व्यापकं शीतं,
तस्य विरुद्धो दहनविशेषः - ९ तस्येहोपलब्धिः । स्वभावविरुद्ध
कार्योपलब्धिर्यथा, नात्र 122शीतस्पर्शः, धूमात् । प्रतिषेध्यस्य
शीतस्पर्शस्य यः स्वभावस्तस्य विरुद्धोऽग्निः, तस्य कार्यं धूमः,
तस्य चेहोपलब्धिः । - १० कार्यविरुद्धकार्योपलब्धिर्यथा—
नेहाप्रतिबद्धसामर्थ्यानि शीतकारणानि सन्ति धूमादिति ।
प्रतिषेध्यानां शीतकारणानां कार्यं शीतं, तस्य विरुद्धो, वह्निः,
तस्य कार्यं धूमः, तस्य चेहोपलब्धिः, - ११ कारणविरुद्धकार्यो
पलब्धिर्यथा--न रोमहर्षादिविशेषयुक्तस्पर्शवानयं प्रदेशो
धूमादिति । प्रतिषेध्यानां हि रोमहर्षादिस्पर्शविशेषाणां कारणं
शीतम् तस्य विरुद्धोऽग्नि, तस्य कार्यं धूमः, तस्य चेहोपल
33 ब्धिः । - १२ व्यापकविरुद्धकार्योपलब्धिर्यथा--नात्र तुषारस्पर्शः,
धूमादिति । निषेध्यस्य तुषारस्पर्शस्य व्यापकं शीतम्, तस्य
विरुद्धोऽग्निः, तस्य कार्यं धूमः, तस्य चेहोपलब्धिः । - १३ स्वभा
वविरुद्धव्याप्तोपलब्धिर्यथा--नात्र वह्निः, तुषारस्पर्शात् । प्रतिषे
ध्यस्य हि वह्नेर्यः स्वभावस्तस्य विरुद्धं शीतम्, तेन व्याप्तस्तु
षारस्पर्शः, तस्य चेहोपलब्धिः । - १४ कार्यविरुद्धव्याप्तोपलब्धि
र्यथा--नेहाप्रतिबद्धसामर्थ्यानि बह्निकारणानि सन्ति, तुषार
स्पर्शादिति । प्रतिषेध्यानां वह्निकारणानां कार्यं वह्निः, तस्य
विरुद्धं शीतम्, तेन व्याप्तस्तुषारस्पर्शः, तस्य चेहोपलब्धिः । - १५ कारणविरुद्धव्याप्तोपलब्धिर्यथा--नात्र धूमस्तुषारस्पर्शादि
ति । प्रतिषेध्यस्य हि धूमस्य यत्कारणमग्निः तस्य विरुद्धं
शीतम्, तेन व्याप्तस्तुषारस्पर्शः, तस्य चेहोपलब्धिः । - १६ व्यापकविरुद्धव्याप्तोपलब्धिर्यथा--नायं नित्यः, कदा
चित्कार्यकारित्वात् । प्रतिषेध्यस्य नित्यत्वस्य निरतिशयत्वं
व्यापकं, तस्य विरुद्धं सातिशयत्वं, तेन व्याप्तं कदाचित्का
र्यकारित्वं, तस्य चेहोपलब्धिः ।
पञ्चदश प्रयोगाः स्वभावानुपलब्धिस्वभावा एव 123प्रतिपत्त
व्याः । प्रयुक्तिभेदेन परं भेदः । तत्र स्वभावानुपलम्भेना
सद्व्यवहारयोग्यत्वं साध्यते, न त्वभावः । तस्य च प्रत्यक्षेणैव
34 सिद्धत्वात् । अपरैश्च सर्वैरभावोऽभावव्यवहारश्च साध्यते, तेषां
परोक्षविषयत्वात्124 ॥
द्वितीयः समाप्तः ॥
-
Gos. लिङ्गादनु.
↩ -
Gos. लिङ्गादनु.
↩ -
Gos. त्रैरूप्यम्.
↩ -
Gos. नित्य.
↩ -
Gos. नित्य.
↩ - ↩
- ↩
- ↩
- ↩
-
omitted in T.
↩ -
omitted in T.
↩ - ↩
- ↩
-
Missing in Gos.
↩ -
Missing in Gos.
↩ - ↩
-
Not found in Gos.
↩ -
Not found in Gos.
↩ -
Not found in Gos.
↩ -
T. सिद्धत्वा.
↩ -
T. सिद्धत्वा.
↩ - ↩
- ↩
-
Gos. बेदितव्यः.
↩ -
Found only in M.
↩ -
Found only in M.
↩ -
Gos. सद्भावे.
↩ -
Found only in M.
↩ - ↩
-
Gos. तुषार.
↩ -
Gos. बोद्धव्याः.
↩ -
T. परोक्षविषयत्वात् प्रत्यक्षाविषयत्वात्.
↩ -
Gos. तत्र.
↩