उभयपरीक्षा ।

उभयव्यापाररहितत्वप्रतिपादनार्थमाह—प्रकृतीश्वरयोरित्यादि ।


प्रकृतीश्वरयोरेवं हेतुत्वप्रतिषेधनात् ।

प्रत्येकं सहितं कर्तृ नोभयं जन्मिनामिदम् ॥ ९४ ॥

तत्र केचित्साङ्ख्या आहुः—न प्रधानादेव केवलादमी कार्यभेदाः प्रवर्तन्ते,
तस्याचेतनत्वात् । न ह्यचेतनोऽधिष्ठायकमन्तरेण स्वकार्यमारभमाणो दृष्टः । न च
पुरुषोऽधिष्ठायको युक्तस्तस्य तदानीमज्ञत्वात् । तथा हि—बुद्ध्यध्यवसितमेवार्थं पुरु
षश्चेतयते । बुद्धिसंसर्गाच्च पूर्वमसावज्ञ एव, न जातु कंचिदर्थं विजानाति । न
चाविज्ञातमर्थं शक्तः कश्चित्कर्तुमिति नासौ कर्त्ता । तस्मादीश्वर एव प्रधानापेक्षः
कार्यभेदानां कर्त्ता, न केवलः । न हि देवदत्तादिः केवलः पुत्रं जनयति नापि
केवलः कुलालो घटं करोतीति । तदेतदपि प्रत्येकं प्रकृतीश्वरयोर्हेतुत्वनिषेधात्सहित
मपि नेदमीश्वरप्रधानाख्यमुभयं जन्मिनाम्—उत्पत्तिमताम्, कर्तृ—जनकम्' इति
सिद्धम् ॥ ९४ ॥