060

इहोच्यत इत्यादिना प्रतिविधत्ते ।


इहोच्यते तयोरेकक्रियाकाले समस्ति किम् ।

तदन्यकार्यनिष्पत्तिसामर्थ्यं यदि वा न तत् ॥ १०१ ॥

यद्यस्ति सर्गकालेऽपि द्वयमप्यपरं भवेत् ।

एवमन्यस्य सद्भावे द्वयमन्यत्प्रसज्यते ॥ १०२ ॥

तयोरिति । प्रकृतीश्वरयोः । एकक्रियाकाल इति । सर्गस्थितिप्रलयानामन्यत
मस्यैकस्य क्रियाकाले तदपरकार्यद्वयोत्पादनसामर्थ्यं किमस्त्युत नास्तीति विकल्पद्वयम् ।
तत्र यद्यस्ति तदा सर्गकालेष्वविकलकारणत्वादपरं कार्यद्वयं स्थितिप्रलयात्मकं भवेदु
त्पादवत् । एवं स्थितिकालेऽप्युत्पादविनाशौ प्राप्नुतः । प्रलयकाले च स्थित्युत्पादौ
स्याताम् । न चैवं युक्तम् । न हि परस्परपरिहारेणावस्थितानामेकत्र धर्मिण्येकदा
सद्भावो युक्तः ॥ १०१ ॥ १०२ ॥