तदेवं स्वपक्षं व्यवस्थाप्य सर्वथेत्यादिना परपक्षं प्रतिषेधयति ।
यदि हि रागादिभिः क्लेशैर्बन्धो भावनादिभिश्चातिशयः कश्चिदात्मनः क्रियेत,
तदा तस्य बन्धमोक्षादिव्यवस्था भवेत् । यावता नित्यतया न तस्यातिशयाधानम
स्तीति नेयमीदृशी नियतकार्यकारणमर्यादालक्षणा बन्धमोक्षादिव्यवस्था घटते, यथा
ऽऽकाशस्येति भावः । अन्यथेति । यद्यतिशयोत्पादो भवेदात्मनस्तदाऽतिशयस्यात्म
भूतत्वादात्मनोऽपि तदव्यतिरेकेणातिशयवदनित्यता स्यात् । परभूतस्त्वतिशयो न
युक्तः संबन्धासिद्धेरिति शतधा चर्चितमेतत् ॥ ५४६ ॥
द्रव्यपदार्थपरीक्षा ।
इदानीं गुणद्रव्यक्रियाजातिसमवायाद्युपाधिभिः । शून्यमित्येतत्समर्थनार्थं षट्प
दार्थपरीक्षोपक्षेपं कुर्वन्नाह—जात्यादेरित्यादि ।
प्राक् स्थिरभावपरीक्षायां जात्यादेर्निःस्वभावत्वान्नैवेष्टा क्षणभङ्गिते त्यनेन यज्जा
त्यादेः निःस्वभावत्वं प्राक्प्रकाशितं तदयुक्तम् । यतो द्रव्यगुणकर्मसामान्यविशेषस
मावायाख्याः षट् पदार्थाः पारमार्थिकाः सन्तीत्याहुराक्षपादादयः । अक्षपादशिष्यत्वा
दाक्षपादा नैयायिकाः । कणादशिष्यास्तु वैशेषिकाः काणादा उच्यन्तै । आगममा
त्रका इति । आगममात्रमपेतयुक्तिकमेषामस्तीत्यागममात्रकाः ॥ ५४७ ॥ ५४८ ॥
तत्र क्षित्यादीत्यादिना द्रव्यपदार्थप्रतिषेधार्थं तावत्तद्विभागमाह—
विभक्तस्य हि भेदेन सुखं दूषणस्य वक्तुं शक्यत्वादिति भावः । नवधेति । पृ
थिव्यापस्तेजोवायुराकाशं कालो दिगात्मा मन इति सूत्रात् । तत्र पृथिव्यापस्तेजो
वायुरित्येतच्चतुःसङ्ख्यं द्रव्यं नित्यानित्यभेदेन द्विप्रकारम् ॥ ५४९ ॥