सामान्यपरीक्षा ।

236 द्रव्यादिष्वित्यादिना—सामान्यविशेषदूषणमारभते ।


द्रव्यादिषु निषिद्धेषु जातयोऽपि निराकृताः ।

पदार्थत्रयवृत्ता हि सर्वास्ताः परिकल्पिताः ॥ ७०८ ॥

जातय इति । सामान्यानि । ताश्च द्रव्यगुणकर्मात्मकपदार्थत्रयाश्रितत्वात्तन्निरा
करणादेवापास्ताः । नह्याश्रयमन्तरेणाश्रितानां क्वचिदवस्थितिरस्ति, अनाश्रितत्वप्रस
ङ्गात् । जातिग्रहणमुपलक्षणम्, विशेषा अप्यन्त्यद्रव्यवृत्तित्वादाश्रिता एवेष्टाः, अत
स्तेऽप्याश्रयनिराकरणादेवापास्ताः ॥ ७०८ ॥