265 एवं प्रदीपदृष्टान्तेऽपि घटादीनां ज्ञानोत्पत्तिहेतुत्वं परोपाधिकं योज्यम् । नेत्यादिना
—विशेषाणां बाधकं प्रमाणमाह । तस्यापि पूर्ववत् स्वरूपं प्रतिबन्धश्च वाच्यः
॥ ८१९ ॥ ८२० ॥ ८२१ ॥ ८२२ ॥
समवायपदार्थपरीक्षा ।
समवायदूषणार्थमाह—तन्तुष्वित्यादि ।
अयुतसिद्धानामाधार्याधारभूतानामिहबुद्धिहेतुर्यः सम्बन्धः स समवायः, स चाय
मिह तन्तुषु पट इत्यादीहबुद्धिविशेषतो द्रव्यादिभ्योऽर्थान्तरत्वेनावगम्यते । यथाहि
सत्ताद्रव्यत्वादीनां स्वाधारेष्वात्मानुरूपप्रत्ययकर्तृत्वात्स्वाश्रयादिभ्यः परस्परतश्चार्था
न्तरभावस्तथा समवायस्यापि पञ्चसु पदार्थेषु—इह तन्तुषु पटः, इह द्रव्ये गुण
कर्मणी, इह द्रव्यगुणकर्मसु सत्ता, इह द्रव्ये द्रव्यत्वम्, इह गुणेषु गुणत्वम्, इह
कर्मणि कर्मत्वम्, इह द्रव्येष्वन्त्या विशेषा, इत्यादिप्रत्ययदर्शनात्पञ्चभ्यः पदार्थेभ्यो
ऽर्थान्तरत्वं गम्यते । प्रयोगः—यो येषु यदाकारविलक्षणः प्रत्ययः, स तदर्थान्तर
निबन्धनः, यथा देवदत्ते दण्डीति प्रत्ययः, तथाचायं पञ्चसु पदार्थेष्विहप्रत्यय इति
स्वभावहेतुं मन्यते ॥ ८२३ ॥
प्रतिबन्धमस्य दर्शयन्नाह—तस्याभाव इत्यादि ।
निबन्धनमन्तरेण भवतो नित्यं सत्तादिप्रसङ्गो बाधकं प्रमाणम् । एवं तावद्वैशे
षिकाणां मतेन—इहबुद्धिलिङ्गानुमेयः समवायः, नैयायिकमतेन तु—इहबुद्धिप्र
त्यक्षगम्य एव । तथाहि ते—अक्षव्यापारे सतीह तन्तुषु पट इत्यादिप्रत्ययोत्पत्तेः
प्रत्यक्षत्वमाचक्षते । स चायं समवायो यथा संयोगः सम्बन्धेषु भिन्नस्तथा नायं