प्रमाणान्तरपरीक्षा ।

शाब्दविचारः ।

इदानीं प्रमाणद्वितयनियमसाधनार्थं सङ्ख्याविप्रतिपत्तिकरणार्थमाह—नन्वित्यादि ।


ननु शब्दप्रमाणादिप्रमाणान्तरसम्भवात् ।

निर्दिष्टं लक्षणं कस्माद्द्वयोरेव प्रमाणयोः ॥ १४८७ ॥

अनेनाव्यापितां प्रमाणलक्षणस्य दोषं प्रमाद्वितयनिश्चितमित्यत्र द्वितयावधारणवै
फल्यं चाह ॥ १४८७ ॥


उच्यत इत्यादिना परिहरति ।


उच्यते न द्वयादन्यत्प्रमाणमुपपद्यते ।

प्रमाणलक्षणायोगाद्योगे चान्तर्गमादिह ॥ १४८८ ॥

अन्तर्गमादिहेति । अस्मिन्नेव प्रमाणद्वये । एतदुक्तं भवति—प्रमाणद्वयादन्यस्य
प्रमाणलक्षणमविसंवादित्वं नास्त्येव, सति चात्रैवान्तर्भावात्पृथङ्न्ोच्यते प्रमाणा
न्तरमिति ॥ १४८८ ॥


तत्र कथमन्येषामप्रामाण्यं प्रामाण्ये वा कथमिहान्तर्भाव इत्येतद्द्वयं प्रतिपादयति ।
अत्र शाब्दोपमार्थापत्त्यभावयुक्त्यनुपलब्धिसम्भवैतिह्यप्रतिभाख्यानिख्यातिप्रमाणान्तराणि परै
रभ्युपगतानि । तत्र शाब्दमधिकृत्याह—शब्दज्ञानादित्यादि ।


शब्दज्ञानात्परोक्षार्थज्ञानं शाब्दं परे जगुः ।

तच्चाकर्तृकतो वाक्यात्तथा प्रत्ययिनोदितात् ॥ १४८९ ॥

इदं च किल नाध्यक्षं परोक्षविषयत्वतः ।

नानुमानं च घटते तल्लक्षणवियोगतः ॥ १४९० ॥

434
धर्मी धर्मविशिष्टो हि लिङ्गीत्येतत्सुनिश्चितम् ।

न भवेदनुमानं च यावत्तद्विषयं न तत् ॥ १४९१ ॥

तत्र शबरस्वामी शाब्दलक्षणमाह—शब्दज्ञानादसन्निकृष्टेऽर्थज्ञानं शाब्दमिति ।
शब्दस्वलक्षणग्रहणादुत्तरकालं परोक्षेऽर्थे यदुत्पद्यते ज्ञानं तच्छब्दादागतमिति कृत्वा
शाब्दप्रमाणम् । तच्च द्विविधम् । अपौरुषेयशब्दजनितं प्रत्ययितपुरुषवाक्यजं च ।
एतच्च प्रत्यक्षाद्भिन्नं परोक्षविषयत्वात् । नाप्यनुमानं त्रैरूप्याभावात् । तथाहि—
साध्यधर्मविशिष्टो धर्मी अनुमेय इष्यते, न केवलो नापि धर्ममात्रम्, यावच्च तद्धर्मि
त्वेन धर्मिविषयं लिङ्गं नावधार्यते न तावदनुमानस्य प्रवृत्तिः सम्भवति । यावत्प
क्षधर्मत्वावधारणा न भवति न तावदनुमानमिति यावत् ॥ १४८९ ॥ १४९० ॥
॥ १४९१ ॥


सैव पक्षधर्मत्वावधारणा किं न भवतीत्याह—यश्चेचि ।


यश्चात्र कल्प्यते धर्मी प्रमेयोऽस्य स एव च ।

नचानवधृते तस्मिंस्तद्धर्मत्वावधारणा ॥ १४९२ ॥

यश्चात्र शाब्दे कल्प्यते वृक्षादिधर्मी स एव प्रमेयस्तस्यैव प्रतिपाद्यत्वात् । धर्म्ये
वात्र प्रमेयो न धर्मविशिष्टो धर्मीति यावत् । तस्मिन्धर्मिणि अनवधृते—अनिश्चिते
कथं तद्धर्मत्वं निश्चीयते ॥ १४९२ ॥


प्राक्स चेत्पक्षधर्मत्वाद्गृहीतः किं ततः परम् ।

पक्षधर्मादिभिर्ज्ञातैर्यन स्यादनुमानता ॥ १४९३ ॥

किं च—यदि चासौ धर्मी पक्षधर्मत्वनिश्चयात्प्राग्ज्ञातस्तदा निष्फलः पक्षधर्म
त्वदिनिश्चये प्रयत्नः,धर्मिप्रतिपत्त्यर्थो हि सर्वः प्रयासः, स चेत्प्रतिपन्नः किमि
दानीं पक्षधर्मत्वादिनिरूपणप्रयासेन । अभ्युपगम्य चैतदभिहितम् । नच शब्दो
वृक्षादेर्धर्मिणो धर्मः, वक्तृदेशेऽवधार्यमाणत्वात् ॥ १४९३ ॥


एवं तावत्पक्षधर्मत्वाभावः प्रतिपादितः, इदानीमन्वयाभावं प्रतिपादयन्नाह—
न्वयो नचे
त्यादि ।


अन्वयो नच शब्दस्य प्रमेयेण निरूप्यते ।

व्यापारेण हि सर्वेषामन्वेतृत्वं प्रतीयते ॥ १४९४ ॥

निरूप्यत इति । निश्चीयते । व्यापारेणेति । सद्भावेन, सत्तयेति यावत् । एत
दुक्तं भवति—विद्यमानस्यैवान्वेतृत्वं नाविद्यमानस्येति ॥ १४९४ ॥


435

एतदेव दर्शयन्नाह—यत्रेत्यादि ।


यत्र धूमोऽस्ति तत्राग्नेरस्तित्वेनान्वयः स्फुटम् ।

नत्वेवं यत्र शब्दोऽस्ति तत्रार्थोऽस्तीति निश्चितम् ॥ १४९५ ॥

यत्र धूमस्तत्रावश्यं यतो वह्निरित्यतोऽसौ वह्निरन्वेता भवति धूमस्य, नत्वेवं
शब्दस्यार्थेनान्वयः ॥ १४९५ ॥


कथं नास्तीति प्रतिपादयन्नाह—न तावदिति ।


न तावत्तत्र देशेऽसौ न तत्काले च गम्यते ।

भवेन्नित्यविभुत्वाच्चेत्सर्वशब्देषु तत्समम् ॥ १४९६ ॥

तेन सर्वत्र दृष्टत्वाद्व्यतिरेकस्य चागतेः ।

सर्वशब्दैरशेषार्थप्रतिपत्तिः प्रसज्यते ॥ १४९७ ॥

न तावत्तत्र शब्दाक्रान्ते देशेऽर्थस्य सद्भावः । तथाहि—पिण्डखर्जुरादिशब्दोऽ
न्यत्र पाटलिपुत्रादौ श्रूयते, नच तत्र देशे पिण्डखर्जूरादिरस्ति । तथा नापि शब्द
कालेऽर्थोऽवश्यं सम्भवति, दिलीपमहासम्मतादिशब्दा वर्त्तमानास्तदर्थस्तु भूतो
भविष्यंश्चेति कुतोऽर्थैः शब्दस्यान्वेतृत्वम् । अथ मतम्—नित्यत्वाच्छब्दानां सर्वका
लमवस्थितेरर्थेन सह न भिन्नकालता, नापि भिन्नदेशता, व्यापित्वात्सर्वदेशेष्वव
स्थितेः, अतो नित्यविभुत्वाद्भवेदन्वयः शब्दानामिति । तत्र सर्वशब्देषु तन्नित्यवि
भुत्वं तुल्यमिति कृत्वा प्रतिनियतेन शब्देन प्रतिनियतार्थाभिधानं न प्राप्नोति । किं
तर्हि ? । येन केनचिच्छब्देन सर्वस्यैवार्थस्याभिधानं स्यात्, तेनार्थेन सह सर्वत्र देशे
काले वा सर्वशब्दस्य दृष्टत्वात् । व्यतिरेकः—साध्याभावे साधनाभावः, तस्य ।
अगतेरिति । अनुपलम्भात् । नित्यविभुत्वादेव ॥ १४९६ ॥ १४९७ ॥


तस्मादननुमानत्वं शाब्दे प्रत्यक्षवद्भवेत् ।

त्रैरूप्यरहितत्वेन तादृग्विषयवर्जनात् ॥ १४९८ ॥

तस्मादित्युपसंहृत्य प्रमाणं दर्शयति । अननुमानत्वं शाब्द इति साध्यनिर्देशः ।
त्रैरूप्यरहितत्वेनेति हेतुः । प्रत्यक्षवदिति दृष्टान्तः । तादृग्विषयवर्जनादिति हेतुस
मर्थनम् । यादृशो धूमादिलिङ्गजस्यानुमानस्य विषयो धर्मविशिष्टो धर्मी तेन तादृशा
विषयेण वर्जनात्—रहितत्वादिति यावत् ॥ १४९८ ॥


भवतु नाम त्रैरूप्यरहितत्वादनुमानादन्यत्वं, प्रामाण्यं त्वस्य शब्दस्य कथमित्याह
अग्निहोत्रेत्यादि ।


436
अग्निहोत्रादिवचनादकम्पज्ञानजन्मतः ।

तत्प्रमाणत्वमप्यस्य निराकर्तुं न पार्यते ॥ १४९९ ॥

संशयविपर्यासरहितत्वादकम्पं निश्चलम् । बाधकप्रमाणाभावात्प्रमाणं प्रत्यक्षादिव
दिति यावत् । तथा चाह शबरस्वामी—न च स्वर्गकामो यजेतेत्यतो वचनात्सन्दि
ग्धमवगम्यते भवति स्वर्गो न वा भवतीति । न च निश्चितमवगम्यमानमिदं मिथ्या
स्यात्, यो हि जनित्वा प्रध्वंसते नैतदेवमिति स मिथ्याप्रत्ययः, नचैष देशान्तरे
कालान्तरे पुरुषान्तरे विपर्येति, तस्मादवितथः । यत्तु लैकिकं वचनं तच्चेत्प्रत्ययिता
त्पुरुषादिन्द्रियविषयं वा तदवितथमेव । अथाप्रत्ययितादतीन्द्रियविषयं वा तत्पुरुष
बुद्धिप्रभवमप्रमाणम्, अशक्यं हि पुरुषमात्रेण ज्ञातुमिति ॥ १४९९ ॥


तत्रेत्यादिना—तच्चाकर्तृकतो वाक्यादित्येतस्मिन्प्रथमे शाब्दे लक्षणेऽसम्भवितां
लक्षणदोषमाह ।


तत्राकर्तृकवाक्यस्य सम्भवार्थावसङ्गतौ ।

तस्मादसम्भवि प्रोक्तं प्रथमं शाब्दलक्षणम् ॥ १५०० ॥

अकर्तृकस्य हि वाक्यस्य सम्भवो नास्त्येव, व्यापिनः क्षणभङ्गस्य साधितत्वात् ।
वक्ष्यमाणयुक्त्या वा । सत्यपि वा सम्भवे न तस्यार्थवत्त्वं सम्भवति, अतोऽकर्तृका
द्वचनात्परोक्षोऽर्थोऽयं ज्ञात इत्यस्यासम्भवादसम्भवि प्रमाणलक्षणम् ॥ १५०० ॥


कथं पुनरकर्तृकं वाक्यं नास्तीत्याह—शक्तेत्यादि ।


शक्ताशक्तस्वभावस्य सर्वदा ह्यनुवर्त्तनात् ।

तदा तद्भाविविज्ञानं भवेन्नो वा कदाचन ॥ १५०१ ॥

तत्राकर्तृकं वाक्यं शक्तं वा स्यात्—ज्ञानजनने, कदाचिदशक्तं वेति पक्षद्वयम् ।
प्रथमे पक्षे तस्य शक्तस्य स्वभावस्यानुवर्त्तनान्नित्यं तद्भाविविज्ञानं प्राप्नोति । तत्र
प्रयोगः—यदप्रतिबद्धसामर्थ्यं यस्मिन्कर्त्तव्ये, तत्करोत्येव, यथाऽन्त्या कारणसामग्री,
अप्रतिबद्धसामर्थ्यं चाकर्तृकं वाक्यं ज्ञानजनने सर्वकालमिति स्वभावहेतुः । अथवा
—यदविकलकारणं तद्भवत्येव, यथाऽविकलकारणोऽङ्कुरः, अविकलकारणं चापौरु
षेयवाक्यभाविविज्ञानमिति स्वभावहेतुः । द्वितीयेऽपि पक्षे तस्याशक्तस्य स्वभावस्य
सर्वकालमनुवर्त्तनाच्च न कदाचित्तद्भावे विज्ञानं स्यात्, यथा विकलकारणोऽङ्कुरः
॥ १५०१ ॥


437

कथमर्थवत्त्वं न सङ्गच्छत इत्याह—द्वेषेत्यादि ।


द्वेषमोहादयो दोषा यथा मिथ्यात्वहेतवः ।

कृपाप्रज्ञादयोऽप्येवं ज्ञाताः सत्यत्वहेतवः ॥ १५०२ ॥

तदाश्रयनराभावे न तयोरपि सम्भवः ।

आनर्थक्यमतः प्राप्तं वचस्यपुरुषाश्रये ॥ १५०३ ॥

द्वाभ्यां प्रकाराभ्यामर्थवत्ता भवति, (अविपरीतार्थत्वेन) विपरीतार्थत्वेन वा,
तृतीयराश्यभावात् । तस्याश्च बुद्धेर्द्विप्रकाराया अप्यर्थवत्ताया गुणदोषौ कारणमित्य
न्वयव्यतिरेकाभ्यां निश्चितम् । तथाहि—यथा रागादिदोषपरीतपुरुषो मृषावादी दृष्टस्तथा
कृपादिगुणयुक्तः सत्यवाग्दृष्टः । तयोश्च गुणदोषयोः सम्यक्त्वमिथ्यात्वहेत्वोराश्रयः
पुरुषः, ततश्च पुरुषनिवृत्तौ गुणदोषनिवृत्तिः, गुणदोषनिवृत्तौ सम्यक्त्वमिथ्यात्वयो
रप्यभावः, तदभावे प्रकारान्तरासम्भवादानर्थक्यमपौरुषेये वचसि प्राप्तम् । कार
णाभावात् । नहि कारणमन्तरेण कार्यस्य सम्भवो युक्तः, निर्हेतुत्वप्रसङ्गात् । ततश्च
देशकालद्रव्यादिनियमो न स्यात् । प्रसङ्गसाधनमेतद्द्रष्टव्यम् । अन्यथा हि स्वात
न्त्र्येण साधने दृष्टविरोधः स्यात् । तथाहि— अग्निहोत्रं जुहुयात्स्वर्गकामः इत्या
दिवाक्यादर्थप्रतीतिर्भवन्त्युपलभ्यत एव, नच दृष्टमपह्नोतुं शक्यते । नचाकर्तृकत्व
मुभयसिद्धमित्यसिद्धश्च हेतुः स्यात् । प्रसङ्गसाधने तु द्वयमप्यदुष्टम् । तथाहि—
यद्यपौरूषेयत्वमभ्युपगम्यते वेदस्य तदाऽऽनर्थक्यमभ्युपगन्तव्यम् । अर्थवत्त्वहेतोः पुरुः
षस्याभावात् । नचानर्थक्यम्, अतः स्यात्पौरुषेय एवेति प्रसङ्गेन प्रदर्श्यते ॥ १५०२ ॥
॥ १५०३ ॥


एतदेव प्रसङ्गसाधनं समर्थयितुं दृष्टविरोधाभावं प्रतिपादयन्नाशङ्कापूर्वकमाह—
अर्थेत्यादि ।


अर्थप्रतीतितो नो चेदेषा व्याख्यानतो भवेत् ।

स्वतन्त्रो हि पुमान्दृष्टो व्याचक्षाणोऽर्थमिच्छया ॥ १५०४ ॥

भूतार्थद्योतने शक्तिः प्रकृत्यैव स्थिताऽस्य चेत् ।

अज्ञातसमयस्यापि भवेदर्थगतिस्ततः ॥ १५०५ ॥

प्रकृत्या दीपको दीपो न सङ्केतमपेक्षते ।

समयान्तरभावे च तस्मादर्थान्तरे गतिः ॥ १५०६ ॥

438
नहि सङ्केतभावेऽपि दीपो गन्धरसादिकम् ।

प्रकाशयति विज्ञातुं सा शक्तिर्नच शक्यते ॥ १५०७ ॥

नो चेदिति । आनर्थक्यमिति सम्बन्धः । ततश्च दृष्टविरोधः प्रतिज्ञाया इति
भावः । सत्यं स्याद्दृष्टविरोधो यदि वेदादेवार्थप्रतीतिरुपदेशमन्तरेणोपजायते, याव
तैषाऽर्थप्रतीतिर्व्याख्यातुः सकाशात्समवंशाद्भवेत् । न वेदात्केवलात्समयनिरपे
क्षात् । तथाहि—वेदार्थं मीमांसकादिः स्वेच्छया व्याचक्षाणो दृष्टः, नच स्वाभा
विकस्यार्थस्य पुरुषेच्छानुरोधित्वं युक्तम् । तत्रैतत्स्यात्—नहि पुरुषेणापूर्वोऽर्थः स्वे
च्छया कथ्यते, किं तर्हि ? । य एव हि स्वाभाविको व्यवस्थितः स एव पुरुषेण
प्रकाश्यते इति तेन भवत्येव दृष्टविरोध इति । एवं तर्हि यदि प्रकृत्याऽस्य वेदस्य
भूतार्थद्योतने शक्तिः स्थिता तदा सङ्केतानभिज्ञस्यापि ततो वेदवाक्यादर्थप्रतीतिः
प्राप्नोति । सङ्केतसापेक्षो वेदोऽर्थप्रतीतिहेतुर्न केवल इति चेत् । तन्न । नहि प्रकृत्या
ऽर्थप्रतीतिहेतवो दीपादयः सङ्केतमपेक्षन्ते । अन्यथा सङ्केतस्यैवान्वयव्यतिरेका
भ्यामर्थप्रतीतौ सामर्थ्यं स्यात्, न स्वाभाविकस्य सम्बन्धस्य । किंच—भवतु नाम
सङ्केतसहायादर्थप्रतीतिस्तथापि दोष इत्याह—समयेत्यादि । मीमांसकोपरचितात्स
मयान्निरुक्तकाराद्युपरचितः समयः समयान्तरं तस्य सद्भावे सति प्रकृतादर्थादर्था
न्तरे ततः शब्दात्प्रतीतिर्न प्राप्नोति । नहि प्रदीपोऽप्रकाश्यं गन्धरसादिकं सङ्केतव
शात्प्रकाशयितुमीशः । भवतु नामार्थान्तरे वृत्तिः समयवशात्तथाऽपि—प्रामाण्यं
न सिध्यतीति प्रतिपादयति—विज्ञातुमिति । पुरुषेच्छावशाद्यद्यर्थान्तरेऽपि शब्दस्य
प्रवृत्तिस्तदा साङ्कर्यात्सा भूतार्थद्योतनशक्तिर्निश्चेतुं न शक्यते इति कथं तत इष्टार्थ
प्रतिपत्तिर्भवेत् । अथवाऽन्यथा व्याख्यायते । यासौ प्रकृत्या भूतार्थद्योतनशक्तिः सा
कदाचिदेकार्थनियता वा स्यादनेकार्थनियता वेति पक्षद्वयम् । तत्रैकार्थनियमपक्षे
दोषमाह—समयान्तरभाव इति । द्वितीयेऽप्याह—विज्ञातुं सा शक्तिर्नच
शक्यत
इति । साङ्कर्यादिति भावः । यथोक्तम्— गिरामेकार्थनियमे न स्यादर्था
न्तरे गतिः । अनेकार्थाभिसम्बन्धे विरुद्धव्यक्तिसम्भवः ॥
इति ॥ १५०४ ॥
॥ १५०५ ॥ १५०६ ॥ १५०७ ॥


एवं प्रथमं शाब्दलक्षणमसम्भवीति प्रतिपाद्याकम्पज्ञानजन्मत इत्यस्य हेतोरसि
द्धताभुपसंहारेण दर्शयन्नाह—अत इत्यादि ।


439
अतोऽर्थप्रत्ययायोगात्तस्य निःकम्पता कुतः ।

स तु सामयिको युक्तः पुंवाग्भूतान्न भिद्यते ॥ १५०८ ॥

न्यायज्ञैर्न तयोः कश्चिद्विशेषः प्रतिपद्यते ।

श्रोत्रियाणां त्वकम्पोऽयमज्ञातन्यायवर्त्मनाम् ॥ १५०९ ॥

अपौरुषेयत्वे सति यथोक्तनीत्याऽर्थप्रतीतिरेव न सम्भवति यदा, तदा कुत
स्तस्या अकम्पत्वम् । यश्चायमर्थप्रत्ययो भवन्नुपलभ्यते वेदवाक्यात्स तु साङ्केतिक एव
युक्त इति पूर्वं प्रतिपादितम् एषा व्याख्यानतो भवेदित्यादिना । इतश्चायं साङ्के
तिक एव युक्त इति । यस्माद्वैदिकं वाक्यं पुंवाग्भूतात्—पुंवाक्त्वप्राप्तात् न भि
द्यते । पौरुषेयवचनान्न भिद्यते इति यावत् । एतदपि कुत इत्याह—न्यायज्ञैरित्यादि ।
तयोरिति । वैदिकपौरुषेययोः । सर्वप्रकारेण पुरुषैः शक्यकरणत्वान्न कश्चिद्विशेषो
वैदिकस्य लौकिकात् । श्रोत्रियाणामित्युपहसति ॥ १५०८ ॥ १५०९ ॥


द्वितीयेऽपि यद्वा प्रत्ययितोदितादित्येतस्मिञ्शाब्दलक्षणेऽसम्भवितां लक्षणदो
षमाह—आप्तेत्यादि ।


आप्तानङ्गीकृतेरेव द्वितीयमपि न क्षमम् ।

शाब्दलक्षणमिष्टौ वा सोऽयमित्यविनिश्चितः ॥ १५१० ॥

मीमांसकैः क्षीणदोषपुरुषानभ्युपगमादाप्तो नाङ्गीकृत एवेति कुतस्तद्वचनस्य
प्रामाण्यं स्यात् । न क्षममिति । न युक्तम् । असम्भवीति यावत् । अथाऽप्याप्त
इष्यते, तदा तस्याप्तस्येष्टौ सत्यां शृङ्गग्राहिकयाऽयमसावित्याप्तो न निश्चित इत्यस
त्प्रख्य एव । नह्यन्यगुणदोषनिश्चये प्रमाणमस्ति तेषामतीन्द्रियत्वात् । कायवाग्व्यव
हाराश्चान्यथाऽपि बुद्धिपूर्वं क्रियन्त इति कुतस्तद्वचनस्य प्रामाण्यम्, असाङ्कर्येणार्वा
ग्दर्शिभिस्तेषामनवधारणात् ॥ १५१० ॥


प्रायः संप्रत्ययो दृष्टो यद्वाक्यात्तस्य गृह्यते ।

परोक्षप्रतिपत्त्यर्थं वाक्यं प्रत्ययतः स चेत् ॥ १५११ ॥

नान्यत्र प्रत्ययाभावात्पूर्वमप्रत्ययोऽपि हि ।

एकत्रास्खलिते तत्र सर्वत्र नियमो न हि ॥ १५१२ ॥

अथापि स्याद्यस्य पुरुषस्याक्षीणदोषस्यापि सतो वाक्याद्बाहुल्येन संप्रत्ययो दृष्टः
सोऽस्माभिः प्रत्ययित इष्टो न क्षीणदोषः, तस्मात्तस्य प्रत्ययितस्य वाक्यं गृह्यते, शा
440 ब्दलक्षणे तेनासम्भविता न सम्भवतीति । एतदप्यसम्यक् । नह्येकत्राविसंवादमात्रो
पलम्भात्सर्वत्र तथाभावनियमो युक्तो व्यभिचारस्य सम्भाव्यमानत्वादन्यथा व्यभि
चारिलक्षणं स्यात् ॥ १५११ ॥ १५१२ ॥


एवं तावद्द्विप्रकारमपि शाब्दलक्षणं विशेषेण दुष्टं प्रतिपाद्य सामान्यं दूषणमाह
वचसामित्यादि ।


वचसां प्रतिबन्धो वा को बाह्येष्वपि वस्तुषु ।

प्रतिपादयतां तानि येनैषां स्यात्प्रमाणता ॥ १५१३ ॥

भिन्नाक्षग्रहणादिभ्यो नैकात्म्यं न तदुद्भवः ।

व्यभिचारान्न चान्यस्य युज्यतेऽव्यभिचारिता ॥ १५१४ ॥

नहि वाच्यैर्वस्तुभिः सह कश्चित्तादात्म्यलक्षणस्तदुत्पत्तिलक्षणो वा प्रतिबन्धो व
चसामस्ति, येन तानि वस्तूनि प्रतिपादयतामेषां वचसां प्रामाण्यं स्यात् । तत्र
तावन्न तादात्म्यलक्षणः प्रतिबन्धोऽस्ति, भिन्नाक्षग्रहणादिभ्यो हेतुभ्यः । तत्र भिन्ना
क्षग्रहणं भिन्नेन्द्रियेण ग्रहणम् । तथाहि—श्रोत्रेन्द्रियेण शब्दो गृह्यतेऽर्थस्तु चक्षु
रादिना । आदिशब्देन कालदेशप्रतिभासकारणभेदो गृह्यते । कुमारिलस्त्वाह—भि
न्नेन्द्रियग्राह्यात्वाद्भिन्नमित्यनैकान्तिकमेतत्तथाहि—एकं रूपं यदा बहवः पश्यन्ति
तदा भिन्नेन्द्रियग्राह्यत्वाद्रूपस्य भेदः प्राप्नोति । अथापि स्याच्चक्षुरिन्द्रियजातेरभेदादे
केन्द्रियग्राह्यत्वमेवेति । एवं तर्हि सत्ताया अनेकेन्द्रियग्राह्यत्वेऽपीन्द्रियजातेरभेदादभि
न्नेन्द्रियग्राह्यत्वमस्तीति सिद्धमेकत्वम् । तस्माद्बुद्धिभेदाभेदाभ्यां पदार्थभेदाभेदव्यव
स्था नेन्द्रियभेदाभेदाभ्यामिति । आह च— न चानेकेन्द्रियग्राह्यं भिन्नतां प्रतिपद्यते ।
माभूद्भिन्नशरीरस्थग्राह्यत्वाद्रूपभिन्नता ॥ जात्यभेदादभेदश्चेदिन्द्रियत्वेन तत्समम् ।
तुल्यबुद्धेरतो भिन्ना न सत्तेन्द्रियभेदतः ॥
इति । एतच्चासम्यक्—बुद्धिभेदाद्भेदे
ऽपि साध्ये समानत्वात् । तथाह्यत्रापि शक्यत एवं वक्तुम्—बुद्धिभेदाद्वस्तुभेद
इत्यनैकान्तिकमेतत् । तथाहि—यदा बहव एकं रूपं पश्यन्ति, तदा बुद्धिभेदोऽ
स्त्येवानेकचक्षुर्ज्ञानोत्पत्तेः । नच तदा रूपस्य भेदः । यदि चक्षुर्विज्ञानजातेरभेदादे
कत्वं परिकल्प्यते, एवं तर्हि रूपरसादीनामप्येकत्वं प्राप्नोति । सत्यपि तद्बुद्धिभेदे
विज्ञानजातेरभेदात् । ततश्च यदुक्तम्— बुद्धिभेदान्न चैकत्वं रूपादीनां प्रसज्यत इति तद्व्याहन्येत । तस्माज्जात्युत्तरमेतत् । अथ सत्यपि स्वलक्षणभेदे यादृशे लक्षण
441 भेदे यादृशो लोके भेदाभेदव्यवहारः प्रसिद्धः, एकानेकप्रत्यवमर्शहेतुत्वेन तादृशौ
बुद्धिभेदाभेदावुपादीयेते । इन्द्रियेऽपि सर्वं समानमित्यलं प्रसङ्गेन । न तदुद्भव इति । नापि तदुत्पत्तिलक्षणसम्बन्धो व्यभिचारात् । अर्थाभावेऽपि विवक्षामात्राद्भा
वात् । नचान्यस्य तदुत्पत्तिरहितस्याव्यभिचारिताऽस्त्यतिप्रसङ्गात् । तस्मान्न वा
च्येऽर्थे शब्दस्य प्रमाण्यम् ॥ १५१३ ॥ १५१४ ॥


यद्येवं कथमुक्तम्— न प्रमाणान्तरं शाब्दमनुमानात्तथाहि सः (तत् ?) ।
कृतकत्वादिवत्स्वार्थमन्यापोहेन भाषते
इति । एतदाशङ्क्य यथानुमानेऽन्तर्भाव इष्ट
स्तथा प्रतिपादयन्नाह—वचोभ्य इत्यादि ।


वचोभ्यो निखिलेभ्योऽपि विवक्षैषाऽनुमीयते ।

प्रत्यक्षानुपलम्भाभ्यां तद्धेतुः सा हि निश्चिता ॥ १५१५ ॥

निखिलेभ्य इति । पौरुषेयत्वेनाप्यभिमतेभ्यः । सा च विवक्षा तत्कार्यत्वाद्वचना
त्प्रतीयते । नतु वाच्यतया । यस्मादात्मसन्तानेऽन्वयव्यतिरेकाभ्यां वचसां हेतुः सा
विवक्षा निश्चिता । यत्तूक्तमन्यापोहेन भाषत इति तत्र भाषणं द्योतनं ज्ञापनमिति
यावत् । तथाचास्य विवरणम्—तत्कृतकत्वादिवदर्थान्तरसम्बद्धेन व्यवच्छेदेन
द्योतयती
ति । अवश्यं चैतद्विज्ञेयमन्यथा कृतकत्वादिवदिति साधनविकलो दृष्टान्तः
स्यात् । नहि कृतकत्वादेर्भाषणं सम्भवति, तस्य शब्दधर्मत्वात् । ततश्चान्यापोहेन
भाषणादिति हेतुरसाधारणः स्यात् ॥ १५१५ ॥


ननु च विवक्षायामपि शब्दस्य नैव प्रामाण्यं युक्तम् । तथाहि—न तावद्विवक्षावि
शेषे प्रामाण्यं व्यभिचारात् । भ्रान्तस्यान्यविवक्षायामन्यवाक्यदर्शनात् । नापि विव
क्षासामान्ये, वैफल्यात् । नहि विवक्षामात्रविज्ञानं क्वचिद्व्यवहाराङ्गतां प्रतिपद्यते ।
ततोऽर्थविशेषानिश्चयात् । एतदाशङ्क्य भ्रान्तस्येत्यादिना, विवक्षाविशेषे तावत्प्रा
माण्यमाह—भ्रान्ताभ्रान्तेत्यादि ।


भ्रान्तस्यान्यविवक्षायां वाक्यं चेदन्यदीक्ष्यते ।

तथा विवक्षमप्येतत्त(क्षासामान्येत?)स्मान्नैव प्रवर्त्तते १५१६

भ्रान्ताभ्रान्तप्रयुक्तानां वैलक्षण्यं परिस्फुटम् ।

विदग्धाः प्रकृतादिभ्यो निश्चिन्वन्ति गिरामलम् ॥ १५१७ ॥

अवश्यं हि भ्रान्ताभ्रान्तप्रयुक्तानां वैलक्षण्यमङ्गीकर्त्तव्यम्, अन्यथा न कारण
442 भेदो भेदकः स्यात् । तच्च वैलक्षण्यं कुशलाः पुरुषा निश्चिन्वन्त्येव प्रकृतादिभ्यः ।
प्रकृतम्—प्रकरणम् । आदिशब्देनाव्याकुलता मुखप्रसन्नतादि गृह्यते ॥ १५१६ ॥
॥ १५१७ ॥


वैलक्षण्यमेव गिरां कथमित्याह—वैलक्षण्येन हेतूनामिति ।


वैलक्ष्यण्येन हेतूनां विशेषं तासु ये न तु ।

अवगच्छन्ति दोषोऽयं तेषां लिङ्गस्य नास्ति तु ॥ १५१८ ॥

सन्दिह्यमानवपुषो धूमस्याप्येकदाऽन्यथा ।

भावान्निश्चयकालेऽपि न स्यात्तेजसि लिङ्गता ॥ १५१९ ॥

कारणभेदादिति यावत् । तस्मात्सुविवेचितं कार्यं न कारणं व्यभिचरतीति भव
त्येव विवक्षाविशेषे प्रामाण्यम् । ये पुनस्तासु लिङ्गभूतासु गीर्षु विशेषं नावधारयन्ति
तेषामयं दोषो नतु लिङ्गस्य । नहि लिङ्गं सत्तामात्रेण गमकमिष्यते, किं तर्हि ?,
निश्चितम् । तस्मात्प्रतिपत्तुर्दोषोऽयम् । अन्यथा हि क्वचिद्बाष्पादिरूपेण सन्दिह्यमा
नस्य धूमस्यान्यत्वाभावादगमकत्वान्निश्चितस्यापि वह्नौ साध्ये न लिङ्गता प्राप्नोति ।
अपिच यदा सर्व एवायं शाब्दो व्यवहारस्तैमिरिकद्वयद्विचन्द्रदर्शनवत्स्वप्रतिभासानु
रोधेन भ्रान्त एवेष्यते, तदा कथं विवक्षाविशेषे व्यभिचारोद्भावनादप्रामाण्यप्रसञ्जनं
स्यात्, तत्र विवक्षाविशेषे पारमार्थिकस्य प्रामाण्यस्यानभ्युपगमात् । तथाचाह—
सङ्केतापेक्षया तस्य हृदि कृत्वा प्रकाशनम् । अनुमानत्वमुद्दिष्टं नतु तत्त्वव्यपेक्षया॥ इति ॥ १५१८ ॥ १५१९ ॥


विवक्षासामान्येऽपि साध्ये प्रामाण्यं प्रतिपादयन्नाह—तेषामित्यादि ।


तेषामपि विवक्षायाः केवलाया विरुध्यते ।

नानुमैकान्तसद्भावात्प्राणितादिप्रसिद्धये ॥ १५२० ॥

तेषामपि भ्रान्ताभ्रान्तप्रयुक्तानां सर्वेषां विवक्षासामान्ये नानुमानत्वविरोधः, ए
कान्तसद्भावात्—अव्यभिचारात् । नच—सान्निध्यतस्तस्य पुंसश्चिन्तामणेरिव ।
निस्सरन्ति यथाकामं कुड्यादिभ्योऽपि देशनाः ॥
इत्यनेनाभ्युपगमेन व्यभिचार
आशङ्कनीयः । यतस्तत्रापि विवक्षैवाद्या करणम् । पूर्वप्रणिधानाहितसंस्कारबलेनैव तत्र
वचनप्रवृत्तेः । तथाहि—अत्यभ्यस्तग्रन्थश्चाद्याया(स्याध्याया ?)दिकालेऽन्यद्विकल्पय
तेऽ(तोऽ ?)पि वचनपादविहरणादिक्रियाप्रवृत्तेः । नहि पूर्वसमीहा न तेषां कारण
443 मन्यथा हि गोपालघटिकादौ धूमोपलम्भाद्धूमादेरपि लिङ्गस्य व्यभिचारित्वं चोद
नीयं स्यात् । तस्मात्सर्वत्रैव कार्यलिङ्गदेशकालाद्यपेक्षया न व्यभिचारः सम्भवीत्ये
कान्तसद्भाव एव । नच वैफल्यम्, प्राणितादिसिद्धये प्रवृत्तेः साफल्यसम्भवात् ।
आदिशब्देन कारणदोषादयो गृह्यन्ते ॥ १५२० ॥


भवतु नाम विवक्षां प्रति शब्दस्य प्रामाण्यम् । तथापि कोऽत्र धर्मी किं साध्यं
कथं वा सम्बन्धः सिद्धो येन त्रैरूप्यसद्भावेनानुमानेऽन्तर्भावान्न प्रमाणान्तरत्वं स्या
दित्याह—विवक्षायामिति ।


विवक्षायां च गम्यायां विस्पष्टैव त्रिरूपता ।

पुंसि धर्मिणि सा साध्या कार्येण वचसा यतः ॥ १५२१ ॥

पादपार्थविवक्षावान्पुरुषोऽयं प्रतीयते ।

वृक्षशब्दप्रयोक्तृत्वात्पूर्वावस्थास्वहं यथा ॥ १५२२ ॥

पुरुषो धर्मी यत्र वक्ता दृश्यते, सा—विवक्षा साध्या, स्वसन्ताने च सम्बन्धः
पूर्वं सिद्धः । यत्र तु वक्ता न दृश्यते तत्र प्रदेशो धर्मी पुरुषविशिष्टः साध्यः । त
थाहि—प्रदेशस्यापि शब्दकारणत्वमस्त्येव । पर्वतकुहरादावन्यादृशशब्दश्रवणात्
॥ १५२१ ॥ १५२२ ॥


अतो यत्र परैर्बाह्ये त्रैरूप्यादि निराकृतम् ।

शब्दानामिष्यते तत्र नैवास्माभिः प्रमाणता ॥ १५२३ ॥

यत्र त्वेषामभीष्टेयं व्यक्तं तत्र त्रिरूपता ।

विवक्षायां तु साध्यायां त्रैलक्षण्यं प्रकाशितम् ॥ १५२४ ॥

एवं स्थितेऽनुमानत्वं शब्दे धूमादिवद्भवेत् ।

त्रैरूप्यसहितत्वेन तादृग्विषयसत्त्वतः ॥ १५२५ ॥

इति शाब्दविचारः ।

अत इत्यादिना बाह्यापेक्षया शब्दस्यानुमानत्वे साध्ये त्रैरूप्यरहितत्वेनेत्यस्य हेतो
र्वैफल्यमाह सिद्धसाध्यतया । विवक्षापेक्षया त्वसिद्धतां यत्रेत्यादिना प्राह । तां प्रति
शब्दस्य त्रैरूप्यस्य प्रकाशितत्वात् ॥ १५२३ ॥ १५२४ ॥ १५२५ ॥


इति शाब्दविचारः ।