ननु चापरोऽप्यस्ति प्रत्यक्षाप्रत्यक्षः, नैव प्रत्यक्षो नाप्यप्रत्यक्ष इत्याह—उभये
त्यादि ।
न ह्येकस्यान्योन्यप्रत्यनीकानेकधर्मसम्पातो युक्तः, एकत्वहानिप्रसङ्गात्, तथाहि
—विशिष्टस्याव्यवधानेन यथागृहीतार्थावसायकारणस्य ज्ञानस्य साक्षाल्लिङ्गादिव्यव
धानं विना जनकोऽर्थः प्रत्यक्ष उच्यते । एवं च कृत्वा क्षणिकः शब्द इत्यादिज्ञान
मप्रत्यक्षार्थमिति सिद्धम् । नचैकस्य पदार्थस्यैकत्र क्रियाक्रिये युक्ते, येन विज्ञानजन
कत्वाजनकत्वाभ्यां प्रत्यक्षाप्रत्यक्षस्वभावो भवेत् । नाप्यनुभयस्वभावो युक्तः, एक
स्वभावनिषेधस्यापरस्वभावविधिनान्तरीयकत्वाद्वस्तुनः । अनेकस्य तु नैकत्र क्रिया
486 क्रियाविरोधः, यथा रूपरसयोश्चक्षुर्विज्ञाने, तथैकस्यानेकस्मिन्, यथा रूपस्य चक्षुः
श्रोत्रविज्ञानयोः, तदर्थमेकस्यैकत्रेति चाह । तस्माद्द्विविध एवार्थः । तत्र शब्दादीनां
प्रामाण्यं भवत्प्रत्यक्षे वार्थे भवेत्परोक्षे वेति पक्षद्वयम् । न तावदाद्येऽर्थे, कस्मात्प्रत्यक्षे
न्तर्गतिप्राप्तेः, शाब्दादीनामभिन्नार्थविषयत्वात्। अथ प्रत्यक्षेणाधिगते सत्युत्तरकालं
तैः पुनरधिगमः क्रियते, अत आह—वैफल्यं वा । गृहीतग्रहणात्स्मृतिवदप्रामा
ण्यप्रसङ्गात् । द्वितीयेऽपि पक्षे स परोक्षोऽर्थो विषयो भवन्साक्षाद्वा स्याद्व्यवधानाद्वा
पराश्रयेण, तत्र तावन्न साक्षात्तस्यापरेक्षत्वप्रसङ्गात्प्रत्यक्षार्थवत् । यस्मादत एवासौ
परोक्ष उच्यते यतः साक्षान्न ज्ञानं जनयति, साक्षात्स चेज्ज्ञानं जनयेत्कथमसौ प
रोक्ष इति वचनीयमेतत् । पराश्रयेणापि परोक्षार्थप्रतिपत्तिः सम्बद्धाद्वा स्यादसम्ब
द्धाद्वा, भेदाभासा वा स्यादभेदाभासा वेति चत्वारः पक्षाः सम्भवन्ति । भेदाभासा
यथा—धूमसामान्यात्तार्णपार्णादिवह्निविशेषप्रतीतिः । अभेदाभासा यथा—धूमा
द्विजातीयपरावृत्तवह्निमात्राध्यवसायिनी । तत्रासम्बन्धात्प्रतिपत्तावव्यवस्था स्यात्,
यतः कुतश्चित्सर्वः प्रतीयेत । अथ भेदाभासा, तदा व्याप्तिः साध्येन हेतोर्न सङ्ग
च्छेत, विशेषेणान्वयायोगात् । ततश्चानैकान्तिकं स्यात् । अथाभेदाभासा तदाऽनुमान
एवान्तर्भाव इति प्रतिपादयन्नाह—परोक्षविषयेत्यादि । अपरामृष्टतद्भेदेति । भे
दप्रतिभासशून्या विजातीयपरावृत्तार्थमात्राध्यवसायिनी । यथा धूमाद्वह्निमात्रप्र
तीतिः । एवम्भूता चेत्स्पष्टमेवानुमानं, सम्बन्धदर्शनोपायत्वात्, धूमाद्वह्निप्रतीतिवत्
॥ १७०२ ॥ १७०३ ॥ १७०४ ॥ १७०५ ॥ १७०६ ॥ १७०७ ॥ १७०८ ॥