सामान्येनैवेत्यादिना प्रतिविधत्ते ।
सामान्येनैव साध्यत्वं नच हेतोर्विरुद्धता ।
नहि तेन विरोधोऽस्य येन तद्विनिवर्त्तयेत् ॥ १९६४ ॥
इति लोकायतपरीक्षा ।
तृतीय एवात्र पक्षोऽभिप्रेतः, न च हेतोर्विरुद्धता कस्मात् ? । नहि तेनान्यभ
वाभ्यासपूर्वत्वेनास्य रागादित्वस्य कश्चिद्विरोधोऽस्ति । येन तत्पारलौकिकाभ्यासपू
र्वत्वं निवर्त्तयेत् । अपिच—अयं लोकः परलोक इत्यवस्थाभेदकृतव्यवस्थामात्रमेतत् ।
बालयौवनादिभेदवत् । अनादित्वं त्वनेन प्रकारेण साध्यत इति नात्राभिनिवेष्टव्यम् ।
( प्रतिवादिसन्निभमित्येतत् ) (?) ॥ १९६४ ॥