72
वादस्थानानि

जातिवादनिरासः

बुद्धानामनुरोधेन यथामतिश्रुतिस्मृति ।

ह्रियं विहाय लिख्यन्ते वादस्थानानि कानिचित् ॥

तत्र तावद्बादो जातिवाद एव निराक्रियते;--इह यद्वस्तुनो
भेदाभेदाभ्यामभिधेयं न भवति तत्सर्वं वस्तु न भवति यथा
व्योमकमलम् । न च भेदाभेदाभ्यामभिधेयं सामान्यमिति1व्याप
कानुपलब्धिः । न तावदय2 मसिद्धो हेतुः । न हि व्यक्तिभ्यो
भिन्नमभिन्नं वा सामान्यं शक्यमभिधातुम् । उभयथाऽप्य
सामान्यस्वभावताप्रसङ्गात् । तथा हि;--यदि तावद्व्यक्तिभ्योऽ
र्थान्तरमेव सामान्यमभिमतं वस्तु; तदा न तत् तासां सामान्यं
नाम । यत्खलु यतोऽर्थान्तरं न तत् तस्य सामान्यम्, यथा
गोरश्वः । अर्थान्तरं च गोत्वमिति विरुद्धव्याप्तोपब्धिः ॥


ननु च व्यक्तिभ्योऽर्थान्तरं च स्यात् सामान्यं च
तासामिति न विरोधं पश्यामः । न चैतन्मन्तव्यमर्थान्तरं

  1. प्रतिषिद्धस्य वस्तुत्वस्य व्यापकमभिधेयत्वं तस्यानुपलब्धिः.

  2. भेदाभेदाभ्यामनभिधेयत्वमिति हेतुः.