जातिवादनिरासः

बुद्धानामनुरोधेन यथामतिश्रुतिस्मृति ।

ह्रियं विहाय लिख्यन्ते वादस्थानानि कानिचित् ॥

तत्र तावद्बादो जातिवाद एव निराक्रियते;--इह यद्वस्तुनो
भेदाभेदाभ्यामभिधेयं न भवति तत्सर्वं वस्तु न भवति यथा
व्योमकमलम् । न च भेदाभेदाभ्यामभिधेयं सामान्यमिति1व्याप
कानुपलब्धिः । न तावदय2 मसिद्धो हेतुः । न हि व्यक्तिभ्यो
भिन्नमभिन्नं वा सामान्यं शक्यमभिधातुम् । उभयथाऽप्य
सामान्यस्वभावताप्रसङ्गात् । तथा हि;--यदि तावद्व्यक्तिभ्योऽ
र्थान्तरमेव सामान्यमभिमतं वस्तु; तदा न तत् तासां सामान्यं
नाम । यत्खलु यतोऽर्थान्तरं न तत् तस्य सामान्यम्, यथा
गोरश्वः । अर्थान्तरं च गोत्वमिति विरुद्धव्याप्तोपब्धिः ॥


ननु च व्यक्तिभ्योऽर्थान्तरं च स्यात् सामान्यं च
तासामिति न विरोधं पश्यामः । न चैतन्मन्तव्यमर्थान्तरं
73 चे 3दर्थान्तरस्य सामान्यम्, सर्वं सर्वस्य सामान्यं स्यात्
विशेषाभावादिति । यद्धि खल्वेकं वस्त्वनेकत्र समवेतं तत्तदीयं
सामान्यम् । गोषु चाश्वो न समवेत इति कथमसौ गवांश्च ?
सामान्यं स्यादिति कुतो विशेषाभावः ? तदयमनैकान्तिको
4हेतुः कथमिष्टसिद्धये 5पर्याप्नुयादिति चेत्; तदेतदपि
बालप्रलापमनुसरति;--स हि विशेषो बुद्धिमता वक्तव्यो
यस्सामान्यपदार्थमात्रभावी सन्नसङ्करेण व्यवस्थामुपपादयेत्,
अयं चानेकसमवायः सङ्ख्यासंयोगादीनामवयविकार्यद्रव्या
दिष्वप्यस्तीति तान्यपि सङ्ख्यादिमतां सामान्यानि स्युः ॥
अथ मन्येथाः;--सत्यप्यनेकार्थसमवाये यदेव समानज्ञाना
भिधानप्रवृत्तिनिमित्तं तदेव सामान्यं नान्यदिति । समा
नानां भावः सामान्यं 6भवतोऽस्मादभिधानप्रत्ययाविति भावः ॥
यदाह अक्षपादः7;--समानज्ञानाभिधानप्रसवात्मिका जातिः
इति । एतदपि स्वप्रक्रियामात्रपरिदीपनम्8 । तथा हि--अत्र
74 विकल्पद्वयमुदयते । किं ते भेदाः स्वरूपेण समानाः स्वहेतो
रुत्पन्नाः येषु तत्सामान्यं तथाविधबोधाभिधानप्रमाणम् ?
आहो स्विदसमाना एवेति ? तत्र ते यदि9 स्वत एव समानाः
समानज्ञानाभिधानं स्वयमेव प्रवर्तयिष्यन्ति; किं तत्र सामान्ये
नार्थान्तरेण ? तथा च तदसामान्यमेव । तद्वलेन सामान्येन
ज्ञानाभिधानयोरप्रयुक्तेः । अथासमानाः, न तर्हि तेषां सामान्य
मस्ति । समानानां भावः सामान्यमित्युक्तवानसि । असमानानां
भावः सामान्यमिति ब्रुवाणः कथं श्लाघनीयप्रतिज्ञो देवानांप्रियः ?
स्वयमसमानभावा अपि तेनैव समानास्त इति चेत्; न; तथा
हि--किं ते क्रियन्ते ? किं नु वै व्यवसीयन्ते ? तत्र न तावत्क्रि
यन्ते, तेषां स्वहेतुभिरेव कृतत्वात् । कृतस्य च पुनः करणायो
गात् । अभूतप्रादुर्भावलक्षणत्वात् करणस्य । 10समानात्मना
क्रियन्त इति चेत्, ननु येषां निष्पन्नतया कृतेः कर्मता नास्ति
कथं ते क्रियन्ते नाम ? स्यादेतत्;--येन धर्मिरूपेण ते निष्पन्नाः
न तेन करोतेः कर्मभावमनुभवन्ति; किं तु समानेन पुना
रूपेणानिष्पन्नाः क्रियन्ते इति न किञ्चिदनुपपन्नम् । एवं तर्हि
तदेव समानं रूपं सामान्येन क्रियन्त इति स्यात् । तस्य च
भाविनिष्पत्तावनिष्पन्नस्य कारणान्तरतः पश्चादुपजायमानस्य
व्यक्तिवद्भावस्वभावता ब्रह्मणाऽप्यशक्या 11साधयितुम् । अर्था
न्तरमेव तद्भवतु न किञ्चिदनिष्टमापद्यत इति चेत्; सामान्यान्तर
75 मेव तर्हि तन्नित्यसामान्यजन्यमभ्युपेतं स्यात् । तथा च भेदानां
असमानानां कथं सामान्यमिति पर्यनुयोगितेनापि तद्व्यतिरिक्त
सामान्यरूपकरणोपगमे सत्यपरापरकार्यसामान्यपरिकल्पना
त्मकमनवस्थानमप्रतिविधानमासज्येत । नचाभेदानामसमानं
रूपं प्रच्यवेत । नापि 12द्वितीयपक्षाश्रयणं श्रेयः । न ह्यन्येन अन्ये
समाना नाम प्रतीयन्ते । तद्वदन्ये नाम प्रतीयेरन् । भूतवत् ।
कथं ? गुणेन; अन्यथा हि येन केनचिदन्येन ये केचन समानाः
प्रतीयेरन्, 13प्रतिनियतां बन्धनाभावात् एकेनानेकसमवायि
नार्थेन अन्ये समानाः प्रतीयन्ते ततो नातिप्रसङ्ग इति चेत्,
वार्तमेतत् । न स्वल्ववयविद्रव्यद्वित्वादिसङ्ख्यानामपि एकत्वा
नेकसमवायिद्वित्वे न स्तः । येन तेभ्योऽवयवादयो न तथा
वगम्येरन् । अथ तेषां स्वाश्रयेषु समानज्ञानाभिधानसामर्थ्या
भावाददोष एषः । ननु सामान्यमपि भेदेष्वेकत्वानेकसमवा
याभ्यामेव समानप्रत्ययहेतुतया परिकल्पितम् । अथ ते च
अवयव्यादीनामपि युष्माभिरभ्युपेताविति तेषामपि तथाभावः
कथमपाक्रियेत ? असामान्यस्वभावत्वात् न तेऽनुमानहेतव
इति चेत् । ननु समानज्ञानहेतुत्वे सति सामान्यस्वभावता;
तस्यां च सत्यां समानज्ञानहेतुत्वमिति स्फुटमितरेतरा
श्रयित्वम् । तथा हि;--एकत्वादेः सामान्यत्वात् निमित्तस्य
सामान्याभिमतभाववदारब्धद्रव्यादेरपि किं न सामान्यरूपतेति
76 पर्यनुयोगे समानप्रत्ययत्वादित्युत्तरमुक्तवानसि । ततस्तदपि
समानप्रतीतिनिमित्तत्वं निमित्तस्य समानत्वात् समानमव
यव्यादेरपि किं न स्यादिति अस्मदीयेषु पुनः पर्यनुयोगे
सति असामान्यरूपत्वादिति ब्रुवाणः कथमितरेतराश्रयदोषां
न्मुक्तिमासादयसि ? ॥


एतेनैतदपि प्रत्युक्तं यदुक्तमुद्योतकरेण14--न गवि गोत्वं
येन गोत्वयोगात् प्राग्गौरेवासाविति व्यर्थं गोत्वं स्यात् । अपि
तु यदैव वस्तु तदैव गोत्वेन सम्बद्ध्यते । न च गोत्वयोगात्
प्राग्वस्त्वस्ति । न चाविद्यमानं गौरित्यगौरिति वा शक्यं व्यपदेष्टु
मिति । तथा हि;--यदैव वस्तु तदैव यदि गोरूपं तत्स्वहेतो
रुत्पन्नं किं तस्यान्येन गोत्वेन ? अथ अगोरूपं, न तर्हि तस्या
गोरितिवाऽश्वादेरिति वा गोत्वेन सह सम्बन्धः स्यात् । न
ह्यगोभावो गोत्वं नाम! तस्मात् नार्थान्तरं सामान्यमिति ।
असामान्यरूपतया अर्थान्तरत्वं व्याप्तं सामान्यात्मतामपहस्त
यति, कुतोऽनेकान्तः ? अभिन्नमेव तर्हि सामान्यमस्तीति व्यक्ति
व्यतिरिक्तसामान्यनिराकरणात् ॥


दत्तसहायकः साङ्ख्य इदानीं प्रत्यवतिष्टंते; स एवं
वक्तव्यः; किं नु वै भवान् व्यक्तीनां सामान्यसंज्ञाकरण
कामः ? यद्वा, आत्मातिशयप्रतिपादनकामः ? आद्ये पक्षे न
77 किञ्चित् क्षीयते; न वयं नाम्नि विवदामहे । द्वितीयोऽपि पक्षो
महतीं मनोराज्यसम्पदमावेदयति । तथा हि;--अत्रापि विकल्प
द्वयमुदयते, किं व्यक्तिभ्यः सामान्यस्याभेदः ? उत व्यक्तीनां
सामान्यात् ? इति । आद्यपक्षे व्यक्तिवदनेकत्त्वमसत्त्वं च
सामान्यस्य स्यात् । प्रयोगः--व्यक्तिभ्यो यदभिन्नं तदने
कमनित्यं च, यथा तासां प्रातिस्विकं रूपम् । व्यक्तिभ्यस्त्व
भिन्नं सामान्यमिति स्वभावहेतुः प्रसङ्गः । नानैकान्तिको हेतुः,
एकत्वनित्यत्वयोः सामान्यस्य विरुद्धधर्माध्यासेन व्यक्तिभ्यः
सुखादिभ्य इव अन्यस्य एकान्तेन भेदभङ्गात् । अपरस्मिन्
पुनर्विकल्पे सामान्यवद्व्यक्तीनमप्येकत्वनित्यत्वे स्याताम् ।
प्रयोगःः--यत्सामान्यादभिन्नं न तद्भिन्नमनित्यं च; यथा तस्यैव
सामान्यता; सामान्यादभिन्नं च व्यक्तीनां रूपमिति व्यापक
विरुद्धोपलब्धिः प्रसङ्गः । न चानैकान्तिकः, सामान्यादभिन्नं
हि सामान्यमेव । तच्चैकं नित्यं चेत्, कथं तदभिन्नं भिन्नम
नित्यं च नाम ? एवं ब्रुवाणः सामान्यमेवानेकमनित्यं च ब्रूयात् ।
तस्य च साक्षादभिन्नत्वनित्यत्वे प्रतिज्ञाय पुनरयं देशान्तरत
एव प्रतिभातीति कथं नोन्मत्तः । तस्माद्भेदामेदाभ्यामवाच्यं
सामान्यमिति सिद्धम् ॥


न चायमनैकान्तिको हेतुः । यद्यपि हि सामान्यं भेदाभेदा
व्यक्तय एव आभ्यां केवलाभ्यामवाच्यम्, तथापि प्रकारान्तर
स्याप्युभयात्मतालक्षणस्य सम्भवात् भिन्नाभिन्नमेव हि सामान्यं
चैवमिति जैनाः प्रतिजानते । यदाहुः--
78

15घटमौलिसुवर्णानां नाशोत्पादस्थितिष्वयम् ।

शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥

न सामान्यात्मनोदेति न व्येति व्यक्तमन्वयात् ।

व्येत्युदेति विशेषेण सहैकत्रोदयादि सत् ॥

16यथा 17कल्माषवर्णस्य यथेष्टं 18वर्णनिग्रहः ।

चित्रत्वाद्वस्तुनोऽप्येवं भेदाभेदावधारणा ॥

यदा तु शबलं वस्तु युगपत् प्रतिपद्यते ।

तदान्यानन्यभेदेन सर्वमेव प्रतीयते ॥

एकात्मकं भवेदेतदिति नेश्वरभाषितम् ।

तत्तथैव प्रपत्तव्यं यद्यथैवोपलभ्यते ॥

इति । अत्र प्रतिविधीयते; भेदाभेदयोरन्योन्यप्रतिषेधरूपत्वा
देकविधेरपरनिषेधनान्तरीयकत्वात् तत्कथमनयोरेकाधिकरणत्वं
मत्तोन्मत्तेतरः प्रतिपद्येत ? तथा हि,--तन्नाम तस्मादभिन्नं यदेव
79 यत्; भिन्नं च तत्तस्माद्यद्यन्न भवति । अतश्च व्यक्तिभ्यस्सा
मान्यं भिन्नमभिन्नं चेति ब्रुवाणो व्यक्तयस्सामान्यं न व्यक्तिभ्यः
सामान्यमिति ब्रूते । कथं स्वस्थचेताश्चेतस्यपि तदेतदारोपयति ।
प्रयोगः--यद्यदेव न तत् अतद्भवति यथोष्णं वह्निरूपं नामो
ष्णम् । व्यक्तय एव सामान्यमिति स्वभावविरुद्धोपलब्धिः
प्रसङ्गः । उभयथा प्रतीतेरुभयोपगम इति चेत् । ननु, प्रतीति
रप्रतीतेर्वाधिका न तु मिथ्याप्रतीतेः वितथस्यापि प्रतीति
दर्शनात् । अन्यथा हि प्रतीतिपथानुसारिणा भवता द्विचन्द्रा
दयोऽपि न निह्नोतव्याः । बाधकवशात्ते निह्नूयन्ते इति चेत्;
इहाप्येतदनुमानमपि बाध्यादिदोषत्रयरहितलिङ्गजं बाधकं किं न
पश्यति देवानांप्रियः ? न संविदो युक्तिभिरस्ति बाधेति चेत्;
ननु किमियं राज्ञामाज्ञा येनाविचार्य गृह्येत । प्रत्यक्षस्वभावा
संवित् तच्च ज्येष्ठं प्रमाणमतो न बाध्यत इति चेत् । किं पुनरनु
मानं लक्षणोपेतमपि बाध्यते ? एवमेतदिति चेत् । न तर्हि
इदमनुमानं प्रमाणं स्यात् । लक्षणयुक्तेऽपि बाधसम्भवे
तल्लक्षणमेव दूषितं स्यादिति सर्वत्रानुमानेऽनाश्वासः । अथा
नुमानाभासो बाध्यते ? बाध्यतामध्यक्षाभासः प्रत्यक्षेणैव
पुनरियं संवित्तिः तत्कथमिति बाध्यत इति चेत्; नन्वियमपि
प्रत्यक्षाभासैव, अनुमानेन बाध्यमानत्वात् । अथ प्रत्यक्षमेव
प्रत्यक्षस्य तदाभासतां बाधकत्वात् साधयति न त्वनुमान
मित्यभिनिवेशः, कथं तर्हि ज्वालादिविषयायाः प्रत्यभिज्ञायाः
80 प्रत्यक्षायाः प्रत्यक्षाभासता व्यवस्थाप्येत ? न खलु ज्वाला
दीनामपि क्षणिकत्वमध्यक्षमवधारयेत् । तस्मादनुमानमेव ज्वाला
दीनां क्षणिकत्वं साधयत् बाधकमेव तस्या इत्यकामेनापि तु
कुमारिलेनाभ्युपेतव्यम् । न च शक्यं वक्तुं सामान्यमेव केवलं
तथा विषयीक्रियत इति! तथा हि तदेवेदं ज्वालात्वमिति
स्यात् न सैवेयं ज्वालेंति । तस्मान्नानैकान्तिको हेतुरित्यलं
बहुप्रलापितया ॥


॥ जितारिपादानां कृतिर्जातिनिराकृतिस्समाप्ता ॥

  1. प्रतिषिद्धस्य वस्तुत्वस्य व्यापकमभिधेयत्वं तस्यानुपलब्धिः.

  2. भेदाभेदाभ्यामनभिधेयत्वमिति हेतुः.

  3. व्यक्तिरूपस्य.

  4. हेतुः सामान्येऽपि सद्भावादनैकान्तिकः.

  5. अर्थान्तरत्वादिसमर्थो भवेत्.

  6. प्रथमपुरुषद्विवचनान्तप्रयोगोऽयम्.

  7. योऽर्थोऽनेकत्रप्रत्ययानुवृत्तिनिमित्तं तत्सामान्यम् इति वात्स्यायनभाष्यं तद्वार्तिकं तट्टीकां च पर्यालोच्य नैयायिकाभिप्रायपूरणेनानुवदति;--समानज्ञानाभिधानप्रसवात्मिका जातिः । इति Cf. Nyāyasūtra, II, 2-70 समानप्रसवात्मिका जातिः.

  8. प्रकाशनम्.

  9. स्वरूपेणैव.

  10. समानस्वरूपेण.

  11. निवारयितुम्.

  12. व्यवसीयन्त इति पक्षाश्रयणम्.

  13. प्रतीयन्ताम् इति स्यात्.

  14. Cf. Nyāyavārtika II, ii, 65.

  15. Cf. Āptamīmāṃsā III 59 & 57.

  16. Cf. Tattvasamgraha & Pancika ślokas 1745-46, cf Ślokavārtika śloka 57 & 58b & 62b & 63a, pp. 561 & 562 Chowamba Sanskrit Series.

  17. शबलोवर्णः.

  18. रूपावधारणम्.